Book Title: Satikachatvar Karmgrantha
Author(s): Chaturvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 257
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा विषयं वीर्यं तस्य केवलिप्रज्ञाच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागाः, ते च निगोदादीनां संज्ञिपञ्चेन्द्रियपर्यन्तानां जीवानामाश्रिता जघन्यादिभेदभिन्ना असङ्ख्येया मन्तव्याः। "दुण्ह य समाण समय" त्ति 'द्वयोश्च समयोः' उत्सर्पिण्यवसर्पिणीकालखरूपयोः समया असहयेयखरूपाः । “पत्तेयनिगोयए" त्ति अनन्तकायिकान् वर्जयित्वा शेषाः पृथिव्यप्तेजोवायुवनस्पतित्रसाः प्रत्येकशरीरिणः सर्वेऽपि जीवा इत्यर्थः, ते चासङ्ख्यया भवन्ति । निगोदाः सूक्ष्माणां बादराणां चानन्तकायिकवनस्पतिजीवानां शरीराणीत्यर्थः, ते चासङ्ख्याताः । एवमेते प्रत्येकमसङ्ख्येयस्वरूपा दश क्षेपास्तान् क्षिपख ॥ ८२ ॥ अथ राशिदशकप्रक्षेपानन्तरं तस्यैव राशेयस्मिन् विहिते यद् भवति तदाह पुण तम्मि ति वग्गियए, परित्तणंत लह तस्स रासीण। अब्भासे लहु जुत्ताणंत अब्भव्यजियमाणं ॥८३ ॥ पुनरपि "तम्मि" त्ति तस्मिन्' अनन्तरोदिते प्रक्षिप्तक्षेपदशके 'त्रिर्वर्गिते' त्रीन् वारान् वर्गिते सति परीत्तानन्तं 'लघु' जघन्यं भवति । इदमुक्तं भवति-जघन्यासङ्ख्येयासङ्ख्येयकखरूपे वारत्रयं वर्गिते राशौ दशैते क्षेपाः क्षिप्यन्ते, तत इत्थं पिण्डितो यो राशिः सम्पद्यते स पुनरपि वारत्रयं वयेते ततो जघन्यं परीत्तानन्तकं भवतीति । इदानीं जघन्ययुक्तानन्तकनिरूपणायाह"तस्स रासीण" इत्यादि, 'तस्य' जघन्यपरीत्तानन्तकस्य सम्बन्धिनां राशीनामन्योन्यमभ्यासे सति 'लघु' जघन्यं युक्तानन्तकमभव्यजीवमानं भवति । इयमत्र भावना-जघन्यपरीत्तानन्तके ये राशयः सर्षपरूपास्ते पृथक् पृथग् व्यवस्थाप्यन्ते, तेषां तथा व्यवस्थापितानां जघन्यपरीत्तानन्तकमानानां राशीनामन्योन्याभ्यासे सति युक्तानन्तं जघन्यं भवति, तथा जघन्ययुक्तानन्तके यावन्ति रूपाणि वर्तन्त अभवसिद्धिका अपि जीवाः केवलिना तावन्त एव दृष्टा इति ॥ ८३ ॥ जघन्यानन्तानन्तकप्ररूपणायाह तव्वग्गे पुण जायइ, णंताणंत लहु तं च तिक्खुत्तो । वग्गसु तह विन तं होइ णंतखेवे खिवसु छ इमे ॥ ८४॥ तस्य-जघन्ययुक्तानन्तकराशेर्वर्गे-सकृदभ्यासे तद्वर्गे कृते सति 'पुनः' भूयोऽपि 'जायते' सम्पद्यते अनन्तानन्तं 'लघु' जघन्यम् , जघन्यानन्तानन्तकं भवतीत्यर्थः । उत्कृष्टानन्तानन्तकप्ररूपणायाह-"तं च तिक्खुत्तो" इत्यादि । 'तच्च' तत् पुनर्जघन्यमनन्तानन्तं 'विकृत्वः' त्रीन् वारान् 'वर्गयख' तावतैव राशिना गुणय । अयमत्रार्थः---जघन्यानन्तानन्तकराशेस्तावतैव राशिना गुणनखरूपो वर्गः क्रियते, ततस्तस्य वर्गितराशेः पुनर्वर्गः, तस्यापि वर्गितराशेर्भूयोऽपि वर्ग इति । 'तथापि' एवमपि वारत्रयं वर्गे कृतेऽपि तद् उत्कृष्टमनन्तानन्तकं 'न भवति' न जायते । ततः किं कार्यम् ? इत्याह-अनन्तक्षेपान् ‘इमान्' वक्ष्यमाणखरूपान् 'षट्' षट्सयान् ‘क्षिपख' निधेहीति ॥ ८४ ॥ तानेव षडनन्तक्षेपानाह सिद्धा निगोयजीवा, वणस्सई काल पुग्गला चेव । सव्वमलोगनहं पुण, ति वग्गिउं केवलदुगम्मि ॥ ८५ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286