Book Title: Sarvagna Siddhi Prakaranam Author(s): Haribhadrasuri, Publisher: Unknown View full book textPage 8
________________ Scanned by CamScanner सर्वज्ञसिद्धौ तिक्रान्तत्वमेव, एतेनासर्वज्ञपुरुषसाधादसर्वज्ञत्वोपमानमेव तत्र युक्तमिति यदुच्यते परैस्तदपि प्रत्युक्तं, न चोपमानोपमेययोः प्रसिध्धसाधा-II पूर्वपक्ष ॥८॥ रणधर्मातिरेकेण सर्वधर्मरुपमानप्रवृत्तिः, यथा शस्त्री श्यामा देवदत्ता, तत्र हि साधारणश्यामत्वावछिन्नरूपतैव केवलं प्रतीयते, नान्ये शस्त्रीगता | धर्माः, तदध्यारोपे तु शस्त्रीरूपतैव स्यात् , इह चासर्वज्ञाः पुरुषा उपमानं उपमेयो विवक्षितः पुरुषविशेषः, कस्तयोःप्रसिध्धः साधारणो धर्म इति * वाच्यं, वक्तृत्वपुरुषत्वादिरिति चेम, सिध्ध्यसाध्यतापत्तेः, यथा पुरुषो वक्तो तथाऽयमपीत्यभ्युपगमात् , एतत्साधर्म्यसिध्ध्या तत्रासर्वज्ञत्वस्या| पि सिद्धिरिति चेत् न देवदत्तायामपि श्यामत्वसिध्धेः तैक्ष्ण्यादि भावप्रसङ्गात् , दृष्टविरोधादप्रसंग इति चेदितरत्र तद्विरोधाभावः केन सिध्ध इति वाच्यं, तद्भावोऽपि केन सिध्ध इति चेदविरुध्धविधेस्तेन विरोधेन सहावस्थानाभावनियमाभावतस्तत्सम्भवोपपत्तेः, अविरुध्धश्च ज्ञानप्रकर्षो वक्तवादिनेति । अर्थापत्तिगोचरातिक्रान्तत्वं युक्यनुपपन्नमेव, ' अग्निहोत्रं जुहुयात्स्वर्गकाम' इत्यादौ दृष्टस्य हवनादेः सुतस्य च स्वर्गादेरर्थस्य तत्साध्यसाधनसम्बन्धज्ञातारमन्तरेणानुपपत्तेः, अशक्यश्चायं पुरुषेण ज्ञातुमृतेऽतीन्द्रियार्थदर्शनात् , अपरस्मात् पुरुषात् हायत इति चेत् सोऽपि तेन तुल्यः, नैवंजातीयकेष्वतीन्द्रियेष्वर्थेषु तज्ज्ञानप्रामाण्यमुपैत्यन्धानामिव ज्ञानं रूपविशेषेष्विति, एतेनानादिवृद्धसम्प्रदायः प्रत्युक्तः, सर्वेषा| मेवात्र वस्तुन्यन्धतुल्यत्वात् , अधिकृतवचनादेवासौ विज्ञायत इति चेत्, न, वाक्यार्थप्रतिपत्तावपि तनिश्चयानुपपत्तेः, लौकिकवाक्ये कचित्त-12 दावेऽप्यर्थतथाऽभावदर्शनात् , तस्य पुरुषबुद्धिप्रभवत्वेन तदायत्तोऽर्थतथाऽभावो नैवमस्य अपौरुषेयत्वादिति चेत् , न, एवमप्यधिकृतभेदवत्त-18 दर्थभेदाशङ्कापत्तेः, प्रदीपवत् स्वार्थप्रकाशनाद नाप त्तिरितिचेत्, न, प्रदीपार्थवदविशेषेण तदर्थप्रतिपत्त्यसिद्धेः, सङ्केतादनेकधा तदर्थोपलब्धेस्ततस्वभावत्वादनेकार्थत्वाच्च तस्यादोषइति चेत्, न, तथा विरुद्धार्थानुपपत्तेः, दृश्यते च 'सर्व विद्यस्ये' त्यादौ सङ्केतभेदे न तदस्तित्वविरुद्धार्थ-12 ॥८॥ | प्रकाशनमिति, नास्तित्वमेव तत्राविपरीतमिति चेत्, न, इतरप्रकाशनानुपपत्तेः, प्रदीपेन्दीवररक्तप्रकाशवदुपपत्तिरिति चेत् , न, अविशेषेण 5 *ॐॐॐॐPage Navigation
1 ... 6 7 8 9 10 11 12 13 14