Book Title: Sarvagna Siddhi Prakaranam
Author(s): Haribhadrasuri,
Publisher: Unknown
View full book text
________________
सर्वज्ञसिद्धौ
॥ १३ ॥
पद्यते । क्लिष्टा प्रयोजनाभावान्ननु तत् किं न निश्चयः ||२१|| तथा नाम स्वभावत्वे, भवोपग्राहि कर्म्मणः । कदाचिदुचितैर्वैत्र, ततः किं नोपपद्यते ? ॥ २२ ॥ साक्षाद्गम्यमानेपु, ततस्तत्र विनिश्चयः । त एवं नैवमितिवा, छद्मस्थस्य न युज्यते || २३ || न चात्र यस्तु सर्वज्ञः, स वक्ता नेति शक्यते । वक्तुं तथाऽप्रसिद्धत्वादुच्यते चेन्न युक्तिमत् ॥ २४ ॥ तदभावादथावृत्तिस्तव हेतोर्न मानतः । स सिद्ध इति सन्न्यायाद्, व्यतिरेको न पुष्कलः ||२५|| यथोक्तं 'न वक्तृत्वमदेहस्ये' त्यादिना वक्तृत्वं रागादिनिबन्धनमित्येतदपि पारम्पर्येण तेषां तन्निबन्धनत्वे दोषाभावात् अबाधकमेव, इष्यन्त एव हि भगवतो ऽतीता रागादयः, न च तन्निवृत्तौ तत्कार्यत्वेन तदैव देहनिवृत्तिप्रसङ्गः तेषां तन्निमित्तकारणत्वात् तदभावेऽ|पि कार्यस्य कियन्तमपि कालमवस्थानाविरोधात्, खनित्राद्यभावे ऽपि घटादिविनाशासिद्धेः, उपादाननिबन्धनं किमस्य वक्तृत्वस्येति ? चेद्, उच्यते, भाषाद्रव्याण्यात्मप्रयत्नश्च, अत एव कचित् प्रक्रान्तवस्तुनि रागाद्यभावेऽपि सतां साक्षादेव वक्तृत्वोपलब्धेः, अन्यथा तदभावप्रसङ्गात् ; तथा सति व्यवहारोच्छेद इति, यथोक्तं-- “ विवश्या च वक्तृत्व " मित्यादि, एतदप्ययुक्तं, विवक्षामन्तरेणापि कचित् वक्तृत्वसिद्धेः, सुप्तमत्तादिषु तथा दर्शनात्, तत्रापि साऽस्त्येवेति चेत्, न, तथा प्रतीत्यभावात्, प्रबुद्धादावुत्तस्मरणानुपलब्धेः, तथापि तत्कल्पने ऽतिप्रसंग:, कातरविवक्षायां कचिच्छ्ररशब्द प्रयोगदर्शनात् तत्राप्यन्तराले शूराविवक्षाऽस्तीति चेन्न, प्रमाणाभावात्, तच्छब्दप्रयोगान्यथानुपपत्तिः प्रमाणामेति चेत्, न, सन्देहानिवृत्तेः, अविवक्षापूर्वकत्वेऽपि विरोधासिद्धेः, तदभावे त्वहेतुकत्वेन सदा तच्छब्दप्रयोगापत्तेर्विरोधसिद्धिरिति चेत्, न, अहेतुकत्वासिद्ध:, तथाविधभाषाद्रव्यात्मप्रयत्नहेतुकत्वात्, वेषां च तथाविधत्वस्यादृष्टादिनिबन्धनत्वात्, अन्यथा विवक्षाया अपि सदाभावेनोक्कदोपानतिवृत्तेः, अमनस्कत्वेन च भगवत इच्छानुपपत्तिः, तथा वाग्योगस्य च चेष्टामात्रत्वात्, ततश्च सा चेच्छाभावतो हि यद्राग' इत्येतदप्यपार्थकमेव, तत्रेच्छाभावासिद्धेः, भावेऽपि शुद्धेच्छाया रागायोगात्, तथा लोकप्रतीतेः ततश्च वक्तृत्वादसर्वज्ञ इति वाङ्मात्रमेव । संक्षेपादिति सर्वज्ञः सन्न्याये क्त्या निदर्शितः । सामान्येन विशेषस्तु ज्ञेयस्तद्वाक्यतो बुधैः || १ || वाक्यालिंगा हि वक्तारो, गुणदोषविनिश्चये । क्रिया- ४ ॥ १३ ॥
पूर्वपक्षखंडनं
Scanned by CamScanner

Page Navigation
1 ... 11 12 13 14