Book Title: Saptatishat Sthana Prakaranam Part 2
Author(s): Ruddhisagar
Publisher: Buddhisagarsuri Jain Gyanmandir

View full book text
Previous | Next

Page 111
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीमद्-ऋद्धिसागरसूरिगुणाष्टकम् ॥ गुणेषु रक्तः श्रुतधर्मसक्तः, सम्यकक्रियाकाण्डलतापयोदः । स्याद्वादमुद्राप्रथितप्रभावः, सूरिः सदाऽऽस्तामिह ऋद्धिसागरः॥१॥ तत्त्वार्थिनां तत्वधनप्रदाता, धर्मार्थिनां धर्मगुणैकदाता । मोक्षार्थिनां तत्प्रथनप्रवीणः, सूरिः श्रियास्तामिह ऋद्धिसागरः॥२॥ जितान्तरारिर्जयशील: भावः, शीलप्रभाभासुरशान्तमूर्तिः। वशीकृताक्षाऽश्वगणश्वकासत्-मूरिः सदा राजति ऋद्धिसागरः ॥ ३ ॥ अनन्यकीर्त्याकलितस्वरूपः, सच्छास्त्रबोधप्रथने पटीयान् । सदा शुभध्याननिविष्टचेताः, सूरिः श्रिया राजति ऋद्धिसागरः ॥४॥ चारित्रमार्ग विशदं विशालं, विधाय सम्यक् स्वमति प्रभावात् । प्रवर्त्तयस्तत्र जनाननेकान्-मूरिः श्रिया राजति ऋद्धिसागरः॥५॥ दयामयं धर्ममनिन्दनीयं, दिशन् जनानार्यगुणान्प्रकुर्वन् । भूतानुकम्पा कलितस्वमावः, सूरिः श्रिया राजति ऋद्धिसागरः ॥६॥ आनन्दिताऽऽत्मापरमात्मनिष्ठः, परप्रवादोक्तिविमूढभावः । श्रीजैनसिद्धान्तविचारविज्ञः, मूरिः श्रिया राजति ऋद्धिसागरः ॥७॥ अखण्डिताऽनन्तमुनिश्रियाऽलं, विराजमानो विरतिप्रधानः । विभासमानो विदुषांसमाजे, सूरिः श्रिया राजति ऋद्धिसागरः ॥ ८॥ हेमेन्द्रसागरमुनिप्रथितं पृथिव्यां, विस्तारमेतु गुणभाजनमष्टकं तत् । किं नास्ति भूरिगुणिनां गुणभावनेह, शर्मप्रदानपटुरुत्तमशीलभाजाम् ॥ ९॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 109 110 111 112