Book Title: Quotations in Malaygiris Commentary on Nandisutra
Author(s): Jambuvijay
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 13
________________ Quotations in Malayagiri's Commentary on the Nandisutra 399 नं० म० पृ० 192A, "ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम्॥" नं०म० पृ० 192A, तथा चाह स्वयंभू:-“देवागमनभोयान-चामरादिविभूतयः / मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् // " [आप्तमीमांसा श्लो० 1] नं० म० पृ० 193A, "ऋषय: संयतात्मानः फलमूलानिलाशनाः / तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् // अतीतानागतान् भावान् वर्तमानांश्च भारत / ज्ञानालोकेन पश्यन्ति त्यक्तसङ्गा जितेन्द्रियाः // "[ ] नं०म० पृ० 213B, तथाचोक्तम्"न कालव्यतिरेकेण गर्भबालशुभादिकम् / यत् किंचिज्जायते लोके तदसौ कारणं किल // 1 // किं च कालादृते नैव मुद्गपक्तिरपीक्ष्यते / स्थाल्यादिसन्निधानेऽपि तत: कालादसौ मता // 2 // कालाभावे च गर्भादि सर्वं स्यादव्यवस्थया / परेष्टहेतुसद्भावमात्रादेव तदुद्भवात् ||3|| काल: पचति भूतानि काल: संहरति प्रजाः / काल: सुप्तेषु जागर्ति कालो हि दुरतिक्रमः // 4 // "[ ] नं० म० पृ० 214A, “अन्यो(ज्ञो) जन्तुरनीशोऽयमात्मनः सुख-दु:खयोः / ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव // " [महाभारते वनपर्वणि 30 / 28] नं० म० पृ० 214B, “नियतेनैव रूपेण सर्वे भावा भवन्ति यत् / ततो नियतिजा ह्येते तत्स्वरूपानुवेधतः // 1 // यद् यदैव यतो यावत् तत् तदैव ततस्तथा / नियतं जायते न्यायात् क एनां बाधितुं क्षमः / / 2 // " [शास्त्रवार्तासमुच्चये श्लो० 173-174] नं० म० पृ० 218A, तथा चोक्तम्-“पूर्वकालादियोगी य: स पूर्वाद्यपदेशभाक् / पूर्वापरत्वं तस्यापि स्वरूपादेव नान्यतः // " [वार्तिकालङ्कारे पृ० 476 श्लो० 30] 1. श्लोकचतुष्टयमिदं शास्त्रवार्तासमुच्चये दृश्यते, श्लो० 165-168 / /

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18