Book Title: Prabhavak Charitam
Author(s): Hiranand M Sharmshastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 9
________________ प्रभावकचरितम्। ॐ नमो भगवते श्रीपार्श्वनाथाय । __ श्रीवज्रप्रबंधः । अर्हत्तत्त्वं स्तुमो विश्वशासनोन्नतिकारकम् । यत्प्रसादेन पूर्वेऽपि महोदयपदं ययुः॥१॥ श्रीसर्वमंगलोल्लासी वृषकेतुरंनङ्गभित् । शंभुर्गणपतिस्तीर्थनाथ आद्यः पुनातु वः ॥२॥ हरिणाङ्को नभोगश्रीर्जनतापापहारकः। महाबलः प्रभुः शान्तिः पातु चित्रं ध्रुवं स्थितिः॥३॥ दशावतारो नः पायात्कमनीयाअनद्युतिः। किं श्रीपतिः प्रदीपः किं न तु श्रीपार्श्वतीर्थकृत् ॥४॥ यद्गोव्रजश्चरन् भव्यगोचरे पात्रपूरकः । श्रेयःपीयूषतः पातु वर्धमानः स गोपतिः॥५॥ सा पूर्वागमितामोदा सुमनोर्ध्या सरस्वती । बहुपादोदया न्यस्ता येन तं गौतमं स्तुवे ॥६॥ संपत्तिः सत्पदार्थानां यत्प्रसादात्प्रजायते । जीवसंजीवनीं नौमि भारती च श्रियं च ताम् ॥ ७॥ यहत्तैकार्थरूपस्य वृद्धिः कोटिगुणा भवेत् । श्रीचन्द्रप्रभसूरीणां तेषां स्यामनृणः कथम् ॥ ८॥ सज्जनः स कथं विष्णुर्योऽलीकादरतत्परः। परावर्ण गुणीकृत्य दोषोद्योगं दधाति नः॥९॥ असन्तः किमुत स्तुत्याः स्तुत्यां ये नादृताः परम् । दीपयन्ति कृताभ्यासाः क्षणवीक्षणतः क्षणे ॥१०॥ कलौ युगप्रधानः श्रीहेमचन्द्रप्रभुः पुरा । श्रीशलाकानृणां वृत्तं प्रास्तावीनृपबोधकृत् ॥ ११ ॥ श्रुतकेवलिनां षण्णां दशपूर्वभृतामपि। श्रीवज्रस्वामिवृत्तं च चरितानि व्यधत्त सः॥१२॥ १ P gives ओं नमः श्रीजिनाय ॥ श्रीउपाध्यायमुनिसागरपरमगुरुभ्यो नमः ॥ instead. २J & H read रङ्गभित्. ३P reads पातुश्चित्रं ध्रुवस्थितिः. ४ J and H read या पूर्वी गमिता गोदा सुमतोा सरस्वती । बहुपादैर्देयान्यस्ता येन तं गौतमं स्तुवे ॥ ५ P reads जिष्णु. ६ P reads कलौयुगप्रधानश्रीहेमचन्द्रः. ७ Refers to त्रिषष्टिशलाकापुरुषचरित्रम् by Hemachandra.

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 358