Book Title: Patanjali Pranitani Yogsutrani
Author(s): Ashok Aklujkar
Publisher: Ashok Aklujkar

View full book text
Previous | Next

Page 10
________________ ततः परमा वश्यतेन्द्रियाणाम् ॥५५॥ १० [ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साधन-पादः । ] तृतीयः विभूति पादः । देश-बन्धश् चित्तस्य धारणा ॥१॥ तत्र प्रत्ययैक- तानता ध्यानम् ॥२॥ तद् एवार्थ-मात्र-निर्भासं स्व-रूप- शून्यम् इव समाधिः ॥३॥ त्रयम् एकत्र संयमः ॥४॥ तज्-जयात् प्रज्ञालोकः ॥५॥ तस्य भूमिषु विनियोगः ॥६॥ त्रयम् अन्तरङ्गं पूर्वेभ्यः ॥७॥ तद् अपि बहिरङ्गं निर्बीजस्य ॥८॥ व्युत्थान-निरोध- संस्कारयोर् अभिभव प्रादुर्भावौ निरोध-क्षण-चित्तान्वयो निरोध - परिणामः ॥ ९ ॥ तस्य प्रशान्त-वाहिता संस्कारात् ॥१०॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधि - परिणामः ॥११॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18