Book Title: Parshwanath Stavanam
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 2
________________ मई २०११ सिद्धं हृदयनिरुद्धं बुद्धध्यानैर्लताभिरिव वृक्षम् । अतिशयमहिमाकक्षं वन्दे वामेयसुरवृक्षम् ॥१॥ आर्या ॥ जिनमिह नतसमयक्षं भवप्रतिपक्षं च सर्वगुणलक्षम् । केवलरमाकटाक्षं कुरु पक्षे दक्ष ! भवसमरे ॥२॥ आर्या ॥ सम्मतिसंयतिसन्ततिसन्नतिदुर्गतिहं, शोचनमोचन ! केवललोचन ! दर्शनदम् । त्वां हृदि शुद्धरसेन्द्रमिव प्रविधाय जिनं नागमलं प्रदहन्ति बुधा निजकर्ममलम् ॥३॥ सोपानकम् ॥ कल्याणाम्बुधरो महोदयकरो रोगार्त्तिगर्ताहरो, मोहोच्छेदकरो जरामरहरो विश्वाप्तकीर्तीश्वरः । भग्नानङ्गशरो हताहिपगरो विध्वस्तजन्मादरो, ब्रह्माण्डैकदिवाकरो भवतु मे मित्रं प्रभो ! ते गुणः ॥४॥ काव्यम् ॥ सकलमुनिजनप्रमोदकं कमठदग्धहरिप्रतिबोधकम् ।। निखिलभवतमोविरोचनं नम जिनं जगतीत्रयलोचनम् ॥५॥ मागधिका-द्रुतविलम्बितछन्दसी ॥ करुणाकरणादरणार्णवलोलतरङ्गतरं । तरुणीरमणीशरणीकृतमन्मथमर्महरम् ।। अधरीकृतदेवनदीसुतरीशुचिगि(गी?)विभवं सदये हृदये ह्युदये तरणेनम पारगतम् ॥६॥ आलिङ्गनकम् ॥ विश्वेन्दीवरभाश्व(स्व)ते जिनपते ! त्रैलोक्यवाचस्पते ! शुद्धो(द्धा)चारवते प्रबुद्धमरुते सर्वत्र शोभावते । दुष्कर्माद्रिशते युगान्तमरुते निर्लेपतां कुर्वते, ब्रह्मज्ञानवते नमो भगवते वामेय ! तुभ्यं यते ! ॥७॥ काव्यम् ॥ निचितदरिततिमिरनिकररविविलसितं, सकलसुकृतकुमुदविपिनविधुसमुदितम् । अरिहरिकरिसमरसमदरगहनदहनगति, जिन ! तव गुण - - - - - ॥८॥ भन्दकन्द ! कन्दनन्द ! पुण्यकुन्दवृन्दचन्द्र ! मन्दबलह !, दुष्कृतान्त ! निष्कृतान्त ! सत्कृतान्त ! विप्रशान्तजनन ! ।

Loading...

Page Navigation
1 2 3 4 5