Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
पद्मपुराणम् ।
प्रथमं पर्व । मादृशोपि वदत्येव चरितं यस्य यत्पुमान् । तच्चरितं क्रमायातं परमं देशदेशनात् ॥ १८ ॥ मत्तवारणसंक्षुण्णे व्रजंति हरिणाः पथि । प्रविशंति भटा युद्धं महाभटपुरस्सराः ॥ १९ ॥ भास्वता भासितानान् सुखेनालोकते जनः । सूचीमुखविनिर्मिनं माणिं विशति सूत्रकं ॥२०॥ बुधपंक्तिकमायातं चरितं रामगोचरं । भक्त्या प्रणोदिता बुद्धिः मष्टुं मम समुद्यता ॥ २१ ॥ विशिष्टचिंतयायातं यच्च श्रेयः क्षणान्महत् । तेनैव रक्षितायाता चारुतां मम भारती ॥ २२ ॥ व्यक्ताकारादिवर्णा वाग् लंभिता या न सत्कथां । सा तस्य निष्फला जंतोः पापादानाय केवलं२३ वृद्धिं व्रजति विज्ञानं यशश्वरति निर्मलं । प्रयाति दुरितं दूरं महापुरुषकीर्तनात् ॥ २४ ॥ अल्पकालमिदं जंतोः शरीरं रोगनिर्भरं । यशस्तु सत्कथाजन्म यावच्चंद्रार्कतारकं ॥ २५ ॥ तस्मात्सर्वप्रयत्नेन पुरुषेणात्मवेदिना । शरीरं स्थास्नु कर्तव्यं महापुरुषकीतेनं ॥२६॥ लोकद्वयफलं तेन लब्धं भवति जंतुना । यो विधत्ते कथा रम्यां सज्जनानंददायिनी ॥२७॥ सत्कथाश्रवणौ यौ च श्रवणौ तौ मतौ मम । अन्यौ विदूषकश्चैव श्रवणाकारधारिणौ ॥२८॥ सच्चेष्टावर्णनावर्णा घूर्णते यत्र मूर्द्धनि । अयं मूर्द्धान्यमूर्द्धा तु नालिकेरकरंकवत् ॥ २९ ॥. सत्कीर्तनसुधास्वादसक्तं च रसनं स्मृतं । अन्यच्च दुवेचोधारं कृपाणदुहितुः फलं ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 522