Book Title: Padmacharitam Part 01
Author(s): Ravishenacharya, Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 11
________________ पद्मपुराणम् । .२ अभिनंदितनिःशेषभुवनं चाभिनंदनं । सुमतिं सुमतिं नाथं मतांतरनिराशिनं ॥ ५ ॥ उद्यदर्ककरालीढपद्माकरसमप्रभं । पद्मप्रभं सुपार्श्वे च सुपार्श्व सर्ववेदिनं ॥ ६ ॥ शरत्सकलचंद्राभं परं चंद्रप्रभं प्रभुं । पुष्पदंतं च संफुल्लकुंदपुष्पप्रभद्विजं ॥ ७ ॥ शीतलं शीतलध्यानदायिनं परमेष्ठिनं । श्रेयांसं भव्य सत्त्वानां श्रेयांसं धर्मदेशिनं ॥ ८ ॥ वासुपूज्यं सतामीशं वसुपूज्यं जितद्विषं । विमलं जन्ममूलानां मलानामतिदूरगं ॥ ९ ॥ अनंतं दधतं ज्ञानमनंतं कांतदर्शनं । धर्म धर्मधुवाधारं शांतं शांतिजिनाहितं ॥ १० ॥ कुंथुप्रभृतिसत्वानां कुंथुं हितनिरूपितं । अशेषक्लेशनिर्मोक्ष पूर्वसौख्यारणादरं ॥ ११ ॥ संसारस्य निहंतारं मलं मल्लिं मलोज्झितं । नमिं च प्रणताशेषं सुरासुरगुरुं विभुं ।। १२ ।। अरिष्टनेमिमन्यूनारिष्टनेमिं महाद्युतिं । पार्श्व नागेन्द्रसंसक्तपरिपार्श्व विशां पतिं ॥ १३ ॥ सुव्रतं सुव्रतानां च देशकं दोषदारिणं । यस्य तीर्थे समुत्पन्नं पद्मस्य चरितं शुभं ॥ १४ ॥ अन्यानपि महाभागान् मुनीन् गणधरादिकान् । प्रणम्य मनसा वाचा कायेन च पुनः पुनः १५ पद्मस्य चरितं वक्ष्ये पद्मालिंगितवक्षसः । प्रफुल्लपद्मवक्त्रस्य गुरुपुण्यस्य धीमतः ॥ १६ ॥ अनंतगुणगेहस्य तस्योदारविचेष्टिनः । गदितुं चरितं शक्तः केवलं श्रुतकेबली ॥ १७ ॥ Jain Education International प्रथमं पर्व । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 522