Book Title: Ogh Niryukti Author(s): Bhadrabahuswami, Purvacharya, Dronacharya, Publisher: Agamoday Samiti View full book textPage 8
________________ श्रीओघनियुक्ति द्रोणीया वृत्तिः ॥३॥ प्रतिपादिता भवति, अतः पूर्वत्रयमुल्लङ्य दशपूर्विणां ग्रहणम् , एवं नवादिष्वपि योज्यम् , एवं व्याख्याते सत्याह परः- मङ्गलादि गुणाधिकस्य वन्दनं कर्तव्यं, न त्वधमस्य, यत उक्तम्-"गुणाहिए वंदणयं" भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरत्वात् दशपूर्व नि. १-२ धरादीनां च न्यूनत्वात्तत्किं तेषां नमस्कारमसौ करोति? इति, अत्रोच्यते, गुणाधिका एव ते, अव्यवच्छित्तिगुणाधिक्यात्, अतो न दोष इति । एवं व्याख्याते सत्याह परः-एकादशाङ्गसूत्रार्थधारकाणां किमर्थ क्रियते ? इति, उच्यते, इह चरणकरणात्मिका ओघनियुक्तिः, एकादशाङ्गसूत्रार्थधारिणश्च चरणकरणवन्त एव, एकादशानामङ्गानां चरणकरणानुयोगत्वात् , उपयोगित्वेनांशेन तेषां नमस्कार इति । साधूनां किमर्थमिति चेत्, ते तु चरणकरणनिष्पादकाः, तदर्थ चायं सर्व एव प्रयास इति । अथवाऽन्यथा व्याख्यायते इदं गाथासूत्रम्-अनेन गाथासूत्रेण पञ्चनमस्कारः प्रतिपाद्यते, न च पञ्चन-18| मस्काराल्लघुतरोऽन्योऽस्ति नमस्कार इत्यतो भद्रबाहुस्वामिना स एव कृत इति, कथम् ?, 'अरहंते वंदित्ता' इत्यनेनार्हन्नमस्कारः, 'चउदसपुबी तहेव दसपुबी एक्कारसंगसुत्तत्थधारए' इत्यनेनाचार्योपाध्यायनमस्कारः, यतः सूत्रप्रदा उपाध्याया अर्थप्रदा आचार्या इति । एवं व्याख्याते सत्याह-एवं तर्हि 'अर्थसूत्रधारकान्' इत्येव वक्तव्यम्, आचार्योपाध्यायपदयो| रेवं क्रमेण व्यवस्थितत्वात् , तत्कथमेतत् ? इति, अत्रोच्यते, नावश्यमाचार्योपाध्यायैर्भिन्नैर्भवितव्यम् , अपि तु कचिदसावेव सूत्रं शिष्येभ्यः प्रयच्छत्यसावेव चार्थमतः 'सूत्रार्थधारकान्' इत्येवमुपन्यस्तम् । 'सर्वसाधूंश्च' इत्यनेन तु साधुनमस्कारः प्रतिपादितः । सर्वशब्दः प्रत्येकमभिसंबध्यते, ततोऽयमर्थो भवति-सर्वानहतः, एवं चतुर्दशपूर्वधरादीनामपि मीलनीयं, १ गुणाधिके बन्दुनकं ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 456