Book Title: Nrusinha Virachita Bandh Kaumudi Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ [15] यथा रक्ष त्वं धृतसद्भूते, भूतेश भुवनत्रयम् । यन्त्र प्रायमिदं भोगिभोगिभूषसदक्षर || ७ || शरबन्धे - प्रथमपादाद्यो वर्णो यः स एव तृतीयः पञ्चमश्च यः सप्तमः स एव द्वितीयपादाद्यः तृतीयश्च यः प्रथमपादान्त्यः स एव द्वितीयपादे द्वितीयः, यो द्वितीयपादे पञ्चमः स एव सप्तमः तृतीयपादाद्यश्च द्वितीयपादे य: षष्ठः स एवाष्टमः, तृतीयपादान्त्यो यः स एव चतुर्थपादे चतुर्थोऽन्त्यः षष्ठश्च चतुर्थपादाद्यो यः स एव तृतीयः पञ्चमश्च चतुर्थपादे स च सप्तमः । एवं चेत् शरबन्धः ॥ सदासविसरापत्र पत्रपङ्क्तिगतागता । यथा गत एवोस्त्वपात्रासा यालयासानसा नसा ॥ ८ ॥ छुरिकाबन्धे - प्रथमपादे यो द्वितीयो वर्णः स एव चतुर्थः षष्ठो, योऽष्टमः स एव तृतीयपादाद्यः चतुर्थपादान्त्यश्च कर्त्तव्यः । द्वितीयपादे प्रथमवर्णद्वयमनुलोमप्रतिलोमात्मकं तृतीयपादान्त्यो वर्णः यः स एव चतुर्थपादाद्यः कर्त्तव्यः ॥ श्रितायताद्भुता भान्ता मुमामामुदपापद । यथा तात त्वं वहसीशान नन्तव्यापि जगन्मता ॥ ९३ ॥ - -- छुरिकाबन्धान्तरे द्वितीयपादेऽक्षरद्वयं यमकरूपम् । पुनरप्यक्षद्वयं यमकरूपम् | असावपि छुरिकाबन्धो भवति ॥ यथा क्लेशपाशवशस्थाय देवदेवप्रियप्रिय । — अन्यच्छुरिकाबन्धान्तरे द्वितीयचतुर्थषष्ठाक्षराण्येकरूपाणि । अष्टमः द्वादशस्तृतीयपादान्तश्चतुर्थादिश्च अमी एकरूपाः । तथा द्वितीयपादाद्यो य स एव तृतीयः यो द्वितीयपादान्त्यः स एव तृतीयपादाद्यः चतुर्थपादान्त्यश्च तृतीयपादे यः सप्तमः स एव चतुर्थे द्वितीयः || यच्छ सौख्यं महादेव वन्द्य मह्यं सदाश्रय ॥ १०४ ॥ यथा सा राजराजराजाज वाजवाजशिखिश्रितम् । [तं] यामायप्रभावाज जवाभाजनयत्सुतम् ॥ ११५ ॥ षोडशकोष्ठागाराणि कृत्वा प्रथमपङ्क्तौ कोष्ठचतुष्टये चत्वार्यक्षराणि लिखेत् । 1 १. आकृति ६ । २. आकृति ७ । ३. आकृति ८. । ४. आकृति ९ । ५. आकृति १०. । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9