Book Title: Nrusinha Virachita Bandh Kaumudi Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 3
________________ [14] प्रतिलोमेन कर्तव्यम् । प्रथमे पादे पञ्चमो यो वर्णः स एव चतुर्थपदान्त्य(:) अन्य द् यथाप्रशस्तमेव शङ्खबन्धे ॥ यथा - ससत्यजयदेहाय देहारूढरसानघ । घनसार नमस्तेह हस्तेशूलाऽखिला श्रियः ॥ ३ ॥ छत्रबन्धे-द्वितीयपादान्त्यो वर्णः स एव तृतीयपादादौ चतुर्थपादान्ते च कर्तव्यः । तृतीयपादे यश्चतुर्थ (:) स एव पञ्चमः, यश्चाष्टमः स एव नवमः, यश्च द्वादशः स एव त्रयोदशः । अन्यद् यथाप्राप्तम् । एवं चेच्छत्रबन्धः ॥ यथा - युष्माकं भूतये भूयात्सा भवानी भवप्रिया । या तु देववपुर्भाग-गमिता स्वस्वरूपया ॥ ४॥ छत्रबन्धान्तरे-यो द्वितीयपादान्त्यो वर्णः स एव तृतीयपादादौ च चतुर्थपादान्ते च कर्त्तव्यः । तथा तृतीयपादादौ वर्णत्रयमनुलोमप्रतिलोमात्मकम् । तथा अन्तिम च वर्णत्रयमपि चेच्छत्र बन्धान्तरे । यथा - शिवेन जगतां सैषा, गौरी सकलसंमता । .. तारिका कारिता मामा, या या मातास्तु तत्सुता ॥ ५ ॥ शूलबन्धे- य आधो वर्णः स एव तृतीयः पञ्चमश्च; द्वितीयपादान्त्यो वर्णो य : स एव तृतीयपादाद्यः, तत्पञ्चमश्चतुर्थपादान्त्यश्च कर्तव्यः । तथा तृतीयपादे यः षष्ठः स एव सप्तमः अष्टमश्च, चतुर्थपादे वर्णद्वयं अनुलोमप्रतिलोमात्मकम् । एवं चेच्छूलबन्धः ॥ यथा - सर्वसत्त्वसमं वेद्मि, त्वामीशं नाशितक्लम । "मदमोदमना नाना, नाम साररसा दम ॥ ६ ॥ - धनुर्बन्धे-प्रथमपादादौ यदक्षरद्वयं अनुलोमात्मकं तच्चतुर्थपादान्ते प्रतिलोमात्मकं कर्तव्यम् । तथा द्वितीयपादान्ते अक्षरद्वयं अनुलोमं तृतीयपादान्ते प्रतिलोमेन स्यात् । तथा प्रथमपादान्तवर्णद्वयमनुलोमं द्वितीयपादादौ द्वितीयपादान्ते च यद्वर्णद्वयं तदनुलोमप्रतिलोमरूपम् । एवं चेद्धनुर्बन्धो भवेत् ॥ १. आकृति ३.। २. आकृति ४.। ३. रक्षिका इति प्रतिपार्श्वे टि। ४. मदो नुद्यते छिद्यतेऽनेनेति मदनो दमनो यस्य इति प्रति प्राधै टि, । ५. आकृति. ५। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9