Book Title: Muhurt Chintamani
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 3
________________ प्रथमावृत्तेः प्रस्तावना । विदितमस्त्येतत्तत्रभवतां यत्संसारापाराकूपारप्रवाहपतितैरखिलैस्त्रैवर्णिकैर हार्दिवमनवरतमनुभूयमानानेकविधक्लेशपरंपरा परिजिहीर्षुभिः सर्वतः श्वश्रेयसाभिलाषुकैरर खिलश्रेयोनिदान भूतमनुसवनं ज्यौतिषमेवाध्येयमध्यापनीयं परिचिन्तनीयं चेति । उक्तं च नारदेन 'सिद्धान्तसंहिताहोरारूपस्कन्ध त्रयात्मकम् । वेदस्य निर्मलं चक्षुर्ज्योतिःशास्त्रमकल्मषम् ॥ विनैतदखिलं श्रौतं स्मार्तं कर्म न सिद्ध्यति । तस्माज्जगद्धितायेदं ब्रह्मणा निर्मितं पुरा ॥ अत एव द्विजैरेतद्ध्येतव्यं प्रयत्नतः ॥ ' इति ॥ किंच ज्योतिःशास्त्रस्य श्रौतस्मार्तकमपयिकत्वं कालस्यापि श्रुतौ कर्मशेषत्वबोधनात् । तथा हि 'अष्टवर्षे ब्राह्मणमुपनयीत तमध्यापयीत' इति ॥ तथा 'वसन्ते ब्राह्मणोऽग्नीनादधीत दर्शपूर्णमासाभ्यां यजेत' इति च । वर्षज्ञानमप्यादित्यादिप्रहचारपरिच्छेदसाध्यम् । श्रीमद्भागवते सूर्यस्तुतौ'नमो भगवते आदित्याया खिलजगतामात्मस्वरूपेण कालखरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भगवानेक एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति । यदु ह वाव विबुधर्षभ सवितरदस्तपत्यनुसवनमहरहराम्नाय विधिनोपतिष्ठमानानामखिलदुरित वृजिनबी - जावभर्जनभगवतः समभिधीमहि तपनमण्डलम् ॥' इति ॥ वसन्ताद्यूतूनां च दर्शपौर्णमासयोश्च ज्ञानं ज्यौतिषं विना सर्वथैव न निर्वहतीत्यवश्यमध्येतव्यं ज्योतिःशास्त्रम् । उक्तं च वेदाङ्गज्योतिषे - 'वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान् ॥ इति ॥ अस्य च शास्त्रस्य वेदचक्षुष्ट्वमुक्तं शिक्षायाम् 'छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।' इति ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 484