Book Title: Method of Grow Crooked Bamboos for Palanquin Beams
Author(s): K V Sarma
Publisher: Z_Agarchand_Nahta_Abhinandan_Granth_Part_2_012043.pdf

View full book text
Previous | Next

Page 5
________________ यन्त्रं चोत्पाट्य तेनैव सह भूमौ विनिक्षिपेत् / पट्टिकाभ्यस्ततः स्तम्भौ विमुच्यास्य तु कण्टकान् / / 33 / / आमूलमेव विच्छिद्य वंशान्मुच्येत पट्टिकाः / परितः कण्टकस्थानं सुशिल्पं कारयेन्मृदु // 34 // किञ्चित्तु तिलजं लिप्त्वा ततः सप्तदिनात् परम् / सत्रिपादद्विहस्तं वा सपादं मूलमप्यतः // 35 // सवितस्त्यायतेनैव मूलाग्रे कारयेत्ततः / अयुगाङ्गुलयुक्तैर्वा हीनरिष्टायतं द्वयोः // 36 / / स्वर्णेन रजतेनापि सूकरस्य गजस्य च / शीर्षमूलाग्रयोः कृत्वा हेमरूप्यारकूटकैः / / 37 / / बद्ध्वा त्रिबाणमुनिभिरङ्गुलरायतैर्द्वयोः / कल्पयेत् शिबिकायोग्यवक्रवेणु महामतिः // 38 / / उक्तं वक्रोन्नतं त्वस्य शुभं पञ्चदशाङ्गुलैः / वक्रस्यान्तःस्थितानां तु पट्टिकानां तृतीयकात् // 39 // पटिकापञ्चके पक्षे द्वितीयादेव च क्रमात् / त्रयोदशं च रुद्रश्च निधिश्च शुभदोन्नतम् // 4 // आभ्यां तु कुटिलो[र्वाभ्यां निपुणेदृष्टिलक्षणैः / केचिद् वक्रोच्चमित्याहुस्तथा वंशश्च दृश्यते // 41 // स्तम्भयोरन्तरे द्वे वा त्रयं वाकुरमस्ति चेत् / पूर्वरन्ध्रापरान्नेत्रामुलं वा?नमेव वा // 42 // त्यक्त्वातो वंशपुष्टयात्र कुर्याद् रन्ध्राणि पूर्ववत् / पुनरप्येवमेवैकां सुषिरालि च कल्पयेत् / तयैव गत्वा स्वाविद्धाः सम्भविष्यन्ति वेणवः / / 43 / / वक्राश्चायतमूलाग्रेक्यामुलैष्टादिभिर्हताः / ध्वजाद्ययुगे योन्याद्यां द्विजादिक्रमतः शुभाः / / 44 // वंशवक्रप्रकरणम् 122 : अगरचन्द नाहटा अभिनन्दन-ग्रन्थ Jain Education International . For Private &Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 3 4 5