Book Title: Method of Grow Crooked Bamboos for Palanquin Beams Author(s): K V Sarma Publisher: Z_Agarchand_Nahta_Abhinandan_Granth_Part_2_012043.pdf View full book textPage 4
________________ कुटिलान्तःस्थिते खर्वपट्टिकासप्तके क्रमात् । घने द्वचङ्गुलमाने च रन्ध्रान् कर्तुमिहोच्यते ॥१५।। अंशाङ्कात् पट्टिकानां च कुर्यात् पूर्वापरं धनम् । तासामधश्चोपरि च वक्रगम्यायतं द्विधा ।।१६।। ऊनाधिकत्रिपादार्धाङ्गलैः कुटिलक्रमम् । स्तम्भादेकादिह प्रोक्तं पट्टिकाद्याद् यथाक्रमम् ।।१७।। सपादनवक चव पादाधिकदिवाकरः। अोंनषोडशं चैव षोडशं च ततः परम् ॥१८॥ अष्टादश त्रिपादोनसार्धषोडशषोडशौ । अर्धाधिकमनुस्तेन सपादं तु त्रयोदश ॥१९॥ सपादनिधिशैलौ च सत्रिपादार्णवानलौ । पक्षान्तरमिहैवोक्तं चतुर्थशरयोः क्रमात् ॥२०॥ कलापञ्चदशा साधौं तत् सपादत्रयोदशम् । सपादमिहिरेणापि कुर्यान्मानं द्वयोरिति ॥२१॥ पट्टिकापञ्चके पक्षे रुद्रादित्यौ तु षोडशौ। तथैव च पुनः कुर्यात् तत्त्रयोदशभास्करी ।।२२।। रसबाणी तृतीयात् तु पक्षान्तरमथोच्यते । मनुत्रयोदशौ सूर्यदिशौ रसशराविति ।।२३।। विना पक्षान्तरेणकं वक्रक्रममथोच्यते । दशार्कषोडशाः सप्तदशं चाष्टादशद्वयम् ॥२४।। अर्धोनाष्टादशं चैव षोडशं च तिथिर्मनुः । एकादशं दशं सप्त रसमेतैश्च सप्तके ॥२५॥ पूर्वक्रमेण तद्वक्रं नृणां नेत्रप्रियावहम् । उक्तसङ्ख्याङ्गल रेवं कृत्वा रेखां ततः परम् ॥२६॥ वक्रगम्यैः सुरन्ध्राणि वेणोः पुष्टयैव पूर्ववत् । रन्ध्रुश्च वंशयात्येवं वक्रक्षेमकराय च ॥२७॥ नित्यं बंशादिकं दृष्ट्रा रज्जुकीलादिभिः सुधीः । कुर्यात् तत्रोचितं कर्म तथाप्यधिकसूक्ष्मतः ॥२८॥ पिपीलिकादंशकीटभङ्ग भ्यः परिपालयेत् । सार्धे मास्यनलाङ्कोवान् कण्टकान् दिनपञ्चकैः ।।२९।। शराङ्गलोर्ध्वमेकैकं स बहिश्चमकं त्यजेत् । त्रिमासानिड (?सेन व) चाचूर्णतैलं मासेन लेपयेत् ॥३०॥ अब्दान्ते लूनयेदग्रं रुद्रहस्तात् परं ततः । दिनवत्सरमासानां चतुर्थं वा तृतीयकम् ॥३१॥ नीत्वाथ सुमहर्ते तु दीपविघ्नेश्वरादिभिः । वेणोश्च लूनयेन्मूलं ततो तिथिदिनात् परम् ॥३२॥ इतिहास और पुरातत्त्व : १२१ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5