Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
भुवनसुन्दरसूरिकृतटीकायुतं (भुवन० ) अत्रे महाविद्यावादी शङ्कते-अथ साध्येति । घ्यापकत्वेनाभिमतं व्यापकत्वाभिमतमित्यर्थः । प्रकृते चेति । प्रकृते प्रस्तुते महाविद्यानुमाने पक्षीकृतेत्यादिकं व्यापकं सायं न्यस्तम् । न च तस्येति । न च तस्य महाविद्यासाध्यस्य स्वस्वेतरेत्यादिकस्य श्रावणत्वात्यन्ताभावोऽश्रावणत्वोपार्व्यािपकः । हेतुमाह-पक्षीकृतेति । पक्षीकृतशब्देत्यादिमहाविद्यासाध्यसहितं यच्छब्दत्वादि तत्र निष्ठो योऽत्यन्ताभावस्तस्य प्रतियोगित्वात् अश्रावणत्वोपाधेरित्यर्थः । एतावता महाविद्यासाध्यवति शब्दत्वेऽश्रावणत्वस्याभावाद्यत्र महाविद्यासाध्यं तत्रोपाधिरित्युपाधेः साध्यव्यापकत्वं नास्ति । फलितमाह-तेन साध्येति । आचायों दूषयति-तन्नेति । व्यापकत्वेति । व्यापकत्वाभिमतं साध्यमित्यर्थः । किंवा प्रकृतसाध्यसाधनेति । प्रकृतसाध्यव्यापकः प्रकृतसाधनाव्यापक उपाधिरिति विशेषलक्षणं वा विवक्षितमिति भावः ।
आद्यं दूषयति-नाद्यः इति । व्याघातं स्पष्टयति-यत्किञ्चिद्व्यापकेति । व्यापकं च तदर्भिमतं च व्यापकाभिमतं साध्यं यत्किञ्चिदनित्यत्वादि, तद्व्यापकस्य स्वात्मादि यत्किञ्चित्साधनमश्रावणत्वादिरूपमेव, तस्य व्यापकत्वादुपाधेः साधनाव्यापकत्वानुपपत्तिः । स्वात्मादीत्यत्र स्वात्मशब्दः पूर्वोक्ताश्रावणत्वोपाध्यपेक्षः । अयमाशयः-घटादयो नित्याः अश्रावणत्वादात्मादिवदित्याद्यनुमाने नित्यत्ववादिना कृते योऽश्रावण वादिहेतुः, स एतदुपाधिरूपः एवेत्यश्रावणत्वाद्युपाधिरेतस्य साधनस्य व्यापक एवेति साधनाव्यापकत्वं नोपपद्यतेत्यर्थः । द्वितीयमुत्थापयतिनापि द्वितीय इति । पक्षीकृतशब्देत्यादि । साध्यव्यापकस्य मेयत्वसाधनाव्यापकस्योपाधेर्भवद्भिरस्वीकाराल्लक्ष्यलक्षणयोः, लक्ष्य उपाधिः, लक्षणं प्रकृतसाध्यव्यापक इत्यादिकं विशेषलक्षणं, तयोरप्यसिद्धेः । लक्षणत्वस्वीकारे तु तस्योपाधित्वमेव स्यादित्याह-सिद्धौ वेति ।।
__ अथ महाविद्याविरोधिनामपि साध्यव्यापकः साधनाव्यापकः इत्युपाधिसामान्यलक्षणं वा विवक्षितम् । उभयथापि पूर्वदोषापत्तिरिति मन्यसे । तन्न । अस्माभिः साध्यपदेन पक्षनिष्ठतया विप्रतिपन्नं प्रति प्रतीत्यपर्यवसानेन ज्ञाप्यस्यानित्यत्वस्य प्रकृतस्य विवक्षितत्वात् । तेन अनित्यत्वव्यापको मेयत्वाव्या. पकः इति प्रकृतोपाधिविशेषलक्षणम् ।
(भुवन०)-चोद्यपरिहारसाम्यरूपया प्रतिबन्धा परः शङ्कते-अथ महाविद्येति । महाविद्याविरोविनां भवतामपि साध्यव्यापकेत्यादिविकल्पयोः पूर्वदोषः स्यादित्यर्थः । ग्रन्थकारः प्रत्युत्तरयति-तन्नेति । अस्माभि: साध्यपदेन महाविद्यासाध्यं न विवक्षितं, किन्तु पक्षे शब्दादों निष्टतया विप्रतिपन्नं प्रतिवादिनं प्रति प्रतीत्यपर्यवसानेन अनित्यत्वं विना साध्यप्रतीतिर्न स्यादित्यपर्यवसानेन ज्ञाप्यमनित्यत्वं विवक्षितम् । एतावता किमुक्तं भवतीत्यत आह-तेनेत्यादि । प्रकृतोऽधिकृतो य उपाधिरश्रावणत्वादिरूप इति भावः ।
कथं पुनरस्य दोषत्वमिति चेत् । अश्रावणत्वव्यापकनिवृत्तौ अनित्यत्व.
१ अथ महा इति च पुस्तक पाठः ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247