Book Title: Mahavidya Vidambanam
Author(s): Vadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
Publisher: Central Library
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महाविद्याविवरणम् । अपक्षसाध्यवद्धृत्तिविपक्षान्वयियन्न तत् ।
साध्यवद्धृत्तितायुक्तं साध्यते साध्यवर्जिते ॥१॥ आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् मेयत्वात् घटवत् ।
तस्यायमर्थः-अपक्षो यः साध्यवान् सः अपक्षसाध्यवान् । सपक्षः इत्यर्थः । तत्र सपक्षे वर्तमानं यत् तत् अपक्षसाध्यवद्वृत्ति । विपक्षे अन्वयो यस्य तत् विपक्षान्वयि । अपक्षसाध्यवद्धृत्ति च तत् विपक्षान्वयि च इत्यपक्षसाध्यवद्धृत्तिविपक्षान्वयि । तत् यत् न भवति तत् अपक्षसाध्यववृत्तिविपक्षान्वयियन्न । सपक्षविपक्षावृत्तीत्यर्थः । तत्साध्यते इति संबन्धः । किंभूतम् । साध्यवद्वृत्तितायुक्तम् । साध्यवान् सपक्षः, तत्र वर्तते इति साध्यवद्धृत्ति, तस्य भावः इति यावत् ।
( अथ प्रथमानुमानम् ।) तत्र प्रथमं तावच्छब्दानित्यत्वानुमानस्य सङ्ग्राहकं श्लोकं व्याचिख्यासुराह-अपक्षेतीति । ___" अपक्षसाध्यवत्तिविपक्षान्वयियन्न तत् ।
साध्यवद्वत्तितायुक्तं साध्यते साध्यवर्जिते " ॥ १ ॥ अस्यायमर्थः-अपक्षो यः साध्यवान् सोऽपक्षसाध्यवान् सपक्षः इत्यर्थः । तत्र सपक्षे घटादौ वर्तमानं यत्तत् अपक्षसाध्यवद्वृत्ति । विपक्षे गगनादौ अन्वयो यस्य तद्विपक्षान्वयि । अपक्षसाध्यवद्वत्ति च तद्विपक्षान्वयि चेति अपक्षसाध्यवद्वत्तिविपक्षान्वयि । तद्यन्न भवति तदपक्षसाध्यवद्वत्तिविपक्षान्वयियन्न । सपक्षविपक्षावृत्तीत्यर्थः । तत्साध्यते इति संबन्धः । किंभूतम् । साध्यवद्वत्तितायुक्तं साध्यवान्सपक्षः, तत्र वर्तते इति साध्यवद्वृत्ति । तस्य भावः साध्यवद्वृत्तिता, तया युक्तम् । ननु अपक्षसाध्यवद्वत्तीत्यादिभणनात् महाविद्यानुमानसाध्यस्य सपक्षे विपक्षे च वृत्तिता निषिद्धा। ततस्तत्साध्यवद्वृत्तितेत्यादिभणनात् साध्यवद्वत्तितायुक्तं साध्यवर्जिते विपक्षे यदि साध्यते, तदा सपक्षविपक्षवृत्तितैव तस्य स्यात् । तथा च कारिकापूर्वार्दोत्तरार्द्धयोर्विरोधः एवापद्यते इति चेत् । न । अत्र सपक्षविपक्षयोरवृत्तिता या प्रोक्ता सा युगलावृत्तित्वेन । तथा च सति यो धर्मो विपक्षे साध्यते स सपक्षे नास्ति । शब्दात्मान्यान्यत्वादेः शब्दात्मभ्यामन्यत्र घटादिसपक्षेऽवर्तनादिति स सपक्षविपक्षयुगलावृत्तिरुच्यते । एवंभूतश्च विपक्षे साध्यते । ननु तर्हि स धर्मः शब्दात्मान्यान्यत्वादिः साध्यवद्वृत्तिः कथम् । सत्यम् । अत्र शब्दात्मान्यान्यत्वधर्मस्य शब्दात्मनोरन्यत्रावर्तनात् साध्यवद्धत्तित्वं तदैव, यदि शब्दः साध्यवान्स्यादिति परिशेषप्रमाणेन शब्दः एव साध्यवान् जातः । तथा च स धर्मः साध्यवति शब्दे वर्तमानो भवतीति साध्यवत्तित्वं तस्य धर्मस्येति न कश्चिद्विरोधगन्धोऽपि बुद्धिमद्भिरपि शङ्कितुं शक्यते इति ।
इदानीं श्लोकानुमानपदयोजनिका-अत्र शब्देतरानित्येत्यनेन अपक्ष
For Private And Personal Use Only
Loading... Page Navigation 1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247