Book Title: Kumarpal Pratibodh
Author(s): Somprabhacharya, Jinvijay
Publisher: Central Library
View full book text
________________
प्रस्तावना।
स्तुमस्त्रिसन्ध्यं प्रभुहेमसूरेरनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुळधित प्रबोधम् ॥ सत्त्वानुकम्पा न महीभुजां स्यादित्येष क्लप्तो वितथः प्रवादः । जिनेन्द्रधर्म प्रतिपद्य येन, श्लाघ्यः स केषां न कुमारपालः ॥
-सोमप्रभाचार्यः। अस्मिन् खलु प्रस्तूयमाने कुमारपालप्रतिबोधनामके ग्रन्थसन्दर्भ, सुविश्रुतनामधेयेन जैनश्वेताम्बराचार्येण हेमचन्द्रेण, गुर्जरदेशीयचौलुक्यवंशोद्भवस्य कुमारपालनाम्नः सुप्रसि. द्धनृपस्य जैनधर्मतत्त्वावबोधनाय, समये समये विविधाख्यानकद्वारेण यः सद्बोधः समुपदिष्टः, तथा यं च सद्बोधं श्रुत्वा, येन क्रमेण कुमारपालनृपेण शनैः शनैः सम्पूर्णतया जैनधर्मः स्वीकृतः, तद्विषयकं कियद्वर्गनं ग्रथितमस्ति ।
यद्यपि ग्रन्थकारणास्य ग्रन्थस्य 'जिनधर्मप्रतिबोधः' इत्येवरूपं नाम सर्वत्र समुल्लिखितं सन्दृश्यते; परन्तु, ग्रन्थान्तस्थिते पुष्पिकालेखे 'कुमारपालप्रतिबोधः' एतादृशो नाम्नः समुपलब्धत्वात्, तथा ग्रन्थग्रथितविषयस्य नामनिर्देशेनैव वाचकजनानां परिचयप्रापणहेतोः 'कुमारपालप्रतिबोध' स्वरूपेण सार्थकेन नाम्नवास्य ग्रन्थस्याङ्कनमुचितमवधारितमस्माभिः।
अस्य ग्रन्थस्य संशोधनं संपादनं च, गुर्जरराष्ट्रस्य प्राचीनराजधानीतया सुप्रसिद्धस्याणहिलपुरनाम्नः पत्तनस्यैकस्मिन् जैनचित्कोशे संपाप्यमाणस्य मुख्यतयैकस्यैव ताडपत्रात्मकादर्शस्याधारेण कृतमस्ति । तदादर्श २५५ संख्याकानि पत्राणि, प्रतिपृष्ठं १० संख्याकाः पतयः, प्रतिपंक्ति १४०-१५० परिमिता वर्णा विद्यन्ते । अयमादर्शः यथा च प्रान्तलिखितपुष्पिकालेखानुसारेण स्पष्टं ज्ञायते-" संवत् १४५८ वर्षे द्वितीयभाद्रपदशुदि ४ तिथौ शुक्रदिने श्रीस्तंभतीर्थे वृद्धपौषधशालायां भट्टारकश्रीजयतिलकसूरीणा. मुपदेशेन""कायस्थज्ञातीय महं. मंडलिकसुतषेता"-नामधेयेन लिपिकृतः । प्रायस्ताडपत्रात्मकेषु पुस्तकसमूहेषु, इदं पुस्तकमपश्चिमं प्रतिभात्यस्माकम् । यतः, एतस्मात् पुस्तकादवाचीनं नान्यत्पुस्तकमस्माकं दृष्टिपथमायातम् कर्णगोचरीभूतं वा कुत्रापि जैनग्रन्थागारे ।
एकमपरमपि ताडपत्रमस्य ग्रन्थस्य, पत्तनस्थादपरस्माद् ग्रन्थागारादासादितमस्माभिः, परन्तु तदतीव त्रुटितमाद्यन्तरहितं च । अतोऽत्र तन्नोल्लेखयोग्यां विशेषतामाव
१ 'जिणधम्मपडियोहे समथिो पदमपत्थावो ।' पृष्ठ ११५. · जिनधर्मप्रतिबोधः क्लुप्तोऽयं गुर्जरे-- त्रिपुरे।' पृ. ४७८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 564