Book Title: Kaysthiti Prakaranam
Author(s): Veershekharvijay, Gunratnavijay
Publisher: Bharatiya Prachya Tattva Samiti

View full book text
Previous | Next

Page 9
________________ कायस्थितिप्रकरणम् । प्रतिप्रस्तट वालुकाप्रभादिनारकाणामुत्कृष्टस्थितिः सागरोपमस्यैकादशभागैरधिके द्वे (२११) सागरोपमे. नवमे सप्तभिः सागरोपमस्यैकादशभागैरधिके द्वे (२१) सागरोपमे, दशमे नवभिः सागरोपमस्यैकादशभागैयुक्त द्वे (२६) सागरोपमे, एकादशे च प्रस्तटे त्रीणि (३) सागरोपमाणि परिपूर्णानि । वालुकाप्रभायाः प्रथमप्रस्तटे नारकस्योत्कृष्टा स्थितिस्त्रीणि सागरोपमाणि चत्वारश्च सागरोपमस्य नवभागाः (३) , द्वितीयप्रस्तटे त्रीणि सागरोपमाण्यष्टौ च सागरोपमस्य नव. भागाः (३), तृतीये प्रस्तटे चत्वारि सागरोपमाणि त्रयश्च सागरोपमस्य नवभागाः (४) चतुर्थे सप्तभिः सागरोपमस्य नवभागैरधिकानि चत्वारि (४) सागरोपमाणि, पञ्चमे द्वाभ्यां सागरोपमस्य नवभागाभ्यामधिकानि पञ्च (५१) सागरोपमाणि, पष्ठे प्रस्तटे पड्भिः सागरोपमस्य नवभागयुक्तानि पञ्च (५१) सागरोपमाणि, सप्तमे प्रस्तट एकेन सागरोपमस्य नवभागेन युतानि षट् (६१) सागरोपमाणि, अष्टमे पञ्चभिः सागरोपमस्य नवभागैर्युक्तानि षट् सागरोपमाणि (६५) नवमे प्रस्तटे सप्त सागरोपमाणि (७) परिपूर्णानि । .. चतुर्थपृथिव्याः पङ्कप्रभायाः प्रथमप्रस्तटे नारकस्योत्कृष्टस्थितिस्त्रिभिः सागरोपमस्य सप्तभागैरधिकानि सप्त (७१) सागरोपमाणि, द्वितीयप्रस्तटे षड्भिः सागरोपमस्य सप्तभागैरभ्यधिकानि सप्त (७१) सागरोपमाणि, तृतीयप्रस्तटे द्वाभ्यां सागरोपमस्य सप्तभागाभ्यामधिकान्यष्टौ (८३) सागरोपमाणि, चतुर्थप्रस्तटे पश्चभिः सागरोपमस्य सप्तभागैरधिकान्यष्ट (८१) सागरोपमाणि, पञ्चमे प्रस्तट एकेन सागरोपमस्य सप्तभागेना-ऽधिकानि नव (९१) सागरोपमाणि, षष्ठे प्रस्तटे चतुर्भिः सागरोपमस्य सप्तभागैरधिकानि नव (४ सागरोपमाणि, सप्तमे प्रस्तटे परिपूर्णानि दश (१०) सागरोपमाणि। धूमप्रभायाः प्रथमप्रस्तटे नारकस्योत्कृष्टा स्थितिाभ्यां सागरोपमस्य पञ्चभागाभ्यामधिकान्येकादश (११३) सागरोपमाणि, द्वितीयप्रस्तटे चतुर्भिः सागरोपमस्य पञ्चभागैरधिकानि द्वादश (१२५) सागरोपमाणि, तृतीयप्रस्तट एकेन सागरोपमस्य पश्चभागेन युक्तानि चतुर्दश (१४१) सागरोपमाणि, चतुर्थे प्रस्तटे त्रिभिः सागरोपमस्य पञ्चभागैरधिकानि पञ्चदश (१५३) सागरोपमाणि, पञ्चमप्रस्तटे सप्तदश (१७) सागरोपमाणि परिपूर्णानि । षष्ठपृथिव्यास्तमःप्रभाया प्रथमप्रस्तटे द्वाभ्यां सागरोपमस्य त्रिभागाभ्यामधिकान्यष्टादश (१८३) सागरोपमाणि, द्वितीयप्रस्तट एकेन सागरोपमस्य त्रिभागेनाधिकानि विंशतिः (२०१) सागरोपमाणि, तृतीयप्रस्तटे द्वाविंशतिः सागरोपमाणि (२२) परिपूर्णानि । __सप्तमपृथिव्या महातमःप्रभायामेक एव प्रस्तटः । तत्रोत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि (३३) भवति । नारकाणां चाऽनन्तरभवे नारकत्वेनोत्पत्तेरयोगादुत्कृष्टकायस्थितिरपि यथोक्तप्रमाणैव । तदेवं प्रसङ्गो नरकगतेः प्रस्तटेषत्कृष्टकायस्थितिर्व्याख्याता, तद्वयाख्याने च समाते नरकगतेरुत्कृष्टकायस्थितेव्याख्यानं परिसमा भवति ।।२।।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60