Book Title: Kaumudimitranandrupakam
Author(s): Ramchandrasuri, 
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 249
________________ कौमुदीमित्रानन्दान्तर्गत सूक्तियाँ १. अकृताखण्डधर्माणां पूर्वे जन्मनि जन्मिनाम् । सापदः परिपच्यते गरीयस्योऽपि सम्पदः ।। २. अक्रूर श्रेयसे कर्म क्रूरमश्रेयसे पुनः । इति सिद्धे पथि क्रूरं श्रेयसे स्पृशतां भ्रमः । । ३. अङ्गानां सन्निवेशो हालिकसुतानामपि तावानेन । वेशेनैव लावण्यविस्मयो धनपतिसुतानाम् ।। (प्राकृत पद्य) ४. अपक्षपातेन यदर्थनिर्णयस्तदेव धर्मः किमपि क्षमाभुजाम् ५. अपत्यजीवितस्यार्थे प्राणानपि जहाति या । त्यजन्ति तामपि क्रूरा मातरं दारहेतवे ।। ६. अभिमुखवर्तिनि वेधसि पुण्यगुणावर्जितानि सर्वाणि । द्वीपान्तरस्थितान्यपि पुरः प्रधावन्ति वस्तूनि । । ७. अल्पत्वं च महत्त्वं च वस्तुनोऽर्थित्वमीक्षते । ८. अवतरति नभोमित्रे वसुधायां कस्य नाऽऽनन्दः । । ९. अस्मिन् जगति महत्यपि न वेधसा किमपि वस्तु तद् घटितम् । अनिमित्तमित्रवृत्तेर्भवति यतो मातुरुपकारः । । १०. अहो ! विचित्रः कर्मणां विपाकः । ११. अहो ! वेधा प्रियङ्करः ।। १२. आजन्म यानि जायन्ते व्यसनानि सहस्रशः । स्मर्यते तानि चेन्नित्यं कोऽवकाशस्तदा मुदाम् ।। १३. इन्द्र एव जनयति वाणीषु कठिनबन्धेषु सरलत्वम् । १४. इयन्तं हि द्रविणसमूहमुपनतं परित्यक्तुं साधवोऽपि तपस्विनः, किमुत परजीवितापहारिणः पक्वणचारिणः । १५. उपनता अपि हि विपदः प्रतिरुध्यन्ते देवतादर्शनेन । Jain Education International अङ्क For Private & Personal Use Only १ ६ ३ ९ ७ ६ 3 ९ ७ ५ ८ ८ ८ १६. एकाकिनः पुनः पुरुषस्य न समुचितः परदाराणां मध्येऽधिवासः । ८ १७. ऐहिकाऽऽमुष्मिकान् क्लेशान् कुक्षिसौहित्यकाम्यया । स्वीकुर्वन्नस्ति दुर्मेधाः कोऽन्यस्तस्करतो जनः । । ९ ३ ७ पृष्ठ ५,६ १०६ ४१ १५६ १२५ 02 ९९ ५५ १५० १२४ ८२ १३९ १५५ ४५ १३५ १३७ १४४ १२० www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254