________________
कौमुदीमित्रानन्दान्तर्गत सूक्तियाँ
१. अकृताखण्डधर्माणां पूर्वे जन्मनि जन्मिनाम् । सापदः परिपच्यते गरीयस्योऽपि सम्पदः ।। २. अक्रूर श्रेयसे कर्म क्रूरमश्रेयसे पुनः ।
इति सिद्धे पथि क्रूरं श्रेयसे स्पृशतां भ्रमः । । ३. अङ्गानां सन्निवेशो हालिकसुतानामपि तावानेन ।
वेशेनैव लावण्यविस्मयो धनपतिसुतानाम् ।। (प्राकृत पद्य) ४. अपक्षपातेन यदर्थनिर्णयस्तदेव धर्मः किमपि क्षमाभुजाम् ५. अपत्यजीवितस्यार्थे प्राणानपि जहाति या ।
त्यजन्ति तामपि क्रूरा मातरं दारहेतवे ।।
६. अभिमुखवर्तिनि वेधसि पुण्यगुणावर्जितानि सर्वाणि । द्वीपान्तरस्थितान्यपि पुरः प्रधावन्ति वस्तूनि । ।
७. अल्पत्वं च महत्त्वं च वस्तुनोऽर्थित्वमीक्षते ।
८. अवतरति नभोमित्रे वसुधायां कस्य नाऽऽनन्दः । ।
९. अस्मिन् जगति महत्यपि न वेधसा किमपि वस्तु तद् घटितम् ।
अनिमित्तमित्रवृत्तेर्भवति यतो मातुरुपकारः । ।
१०. अहो ! विचित्रः कर्मणां विपाकः ।
११. अहो ! वेधा प्रियङ्करः ।।
१२. आजन्म यानि जायन्ते व्यसनानि सहस्रशः ।
स्मर्यते तानि चेन्नित्यं कोऽवकाशस्तदा मुदाम् ।।
१३. इन्द्र एव जनयति वाणीषु कठिनबन्धेषु सरलत्वम् ।
१४. इयन्तं हि द्रविणसमूहमुपनतं परित्यक्तुं साधवोऽपि तपस्विनः, किमुत परजीवितापहारिणः पक्वणचारिणः ।
१५. उपनता अपि हि विपदः प्रतिरुध्यन्ते देवतादर्शनेन ।
Jain Education International
अङ्क
For Private & Personal Use Only
१
६
३
९
७
६
3
९
७
५
८
८
८
१६. एकाकिनः पुनः पुरुषस्य न समुचितः परदाराणां मध्येऽधिवासः । ८ १७. ऐहिकाऽऽमुष्मिकान् क्लेशान् कुक्षिसौहित्यकाम्यया ।
स्वीकुर्वन्नस्ति दुर्मेधाः कोऽन्यस्तस्करतो जनः । ।
९
३
७
पृष्ठ
५,६
१०६
४१
१५६
१२५
02
९९
५५
१५०
१२४
८२
१३९
१५५
४५
१३५
१३७
१४४
१२०
www.jainelibrary.org