Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram
View full book text
________________
[६] कुम्भकारः कंसकारः षडेते शिल्पिनां पराः ॥
सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च । इति । स्थपतिकुविन्दकंसकारादिनाम्ना प्रसिद्धस्तैस्तैः शिल्पिभिस्तत्तच्छिल्पविशेषस्य जीविकानिर्वाहकत्वेनाङ्गीकरणात्तत्प्रतिपादकेषु शिल्पशास्त्रीयग्रन्थेषु ब्राह्मणैरुदासितम् । अतः कारणाब्राह्मणजातीयेषु शिल्पशास्त्राध्ययनाध्यापनप्रचारो लुप्तप्रायोऽभूदिति शिल्पग्रन्था अपि शिल्पिहस्तगता अभवन् । स्थपत्यादयस्ते च शिल्पिनः स्वस्वशिल्पानुष्ठाने. यद्यपि कुशलाः संलक्ष्यते तथाऽपि प्रायस्ते गीर्वा. णवाणी पराङ्मुखाः । नैतावदेव किंतु स्वनामोल्लेखनपर्याप्ताक्षराणामप्यनभिज्ञाः । प्रयत्नेन कतिपयाक्षराणि ग्राहितास्तदपि स्वयमपि लिखितं स्वयं न वाचयतीत्याभाणकस्योदाहरणभूता भवन्ति । तत्र तादृशाक्षराकलनस्य कैव वार्ता । न च ग्रन्थार्थज्ञानेन तेषां किंचित्प्रयोजनम् ! तदन्तरेणैव शिल्पप्रयोगकरणे समर्थास्ते । स समय एव तादृश आसीत् । यत्र शिल्पग्रन्थानां पठनपरम्परा तज्जातीयेष्वपि विलयं गताऽभूत् । परंतु एतावति कालेऽद्ययावत्तद्धस्तगतानां शिल्पग्रन्थानां कीदृशी दुरवस्था संजाता स्यादिति तत्रभवद्भिर्भवद्भिरेव कल्पनीयम् । संप्रत्युपलब्धस्य काश्यपशिल्पग्रन्थस्यैकमपि प्रत्यन्तरं महाराष्ट्रदेशे नोपलभ्यते । सौराष्ट्रादिदेशे स्थपतिनामकानां शिल्पिनां समीपे क्वचिदस्तीति श्रूयते । तद्देशा. देव एकं वा द्वे वा प्रत्यन्तरे वझेकुलोत्पन्नैः शिल्पकलानिधिकृष्णरायैः संपाद्य नागरलिप्यां विलेख्य मुद्रणार्थमेतन्मुद्रणालये समर्पितम् । तच्चाशुद्धिप्रचुर स्थले स्थले त्रुटितं वर्णविपर्यासस्य तु परां काष्ठामापन्नम् । तत्रापि विदेशीयलिपी येन केनापि अक्षरस्याप्यनभिज्ञेन हस्तेन लिखितम् । किं वक्तव्यं प्रभाते नक्षत्रसंततिरिव लिङ्गवचनसंगतिरपि दुर्दर्शा । अत्र सर्वत्र संकुलीकरणे लेखकपरम्परथाऽपि प्रभूतं साहाय्यमाचरितं दृश्यते। संशये तादृशो लेखकः शैशवे शाला प्रविश्य स्थूलाक्षराणि शिक्षितो वा न वेति । मन्ये चैतादृशम्य बहुलाशुद्धि. स्थलसंकीर्णस्य सर्वात्मना विपर्यासं गतस्यास्य संशोधनं वर्षाकालीनात्यन्तकलुषपयःपूरपतितार्थस्येव दुष्करम् । तर्कयामि यः कोऽपि ग्रन्थः सहायभूतानि त्रिचतुराणि प्रत्यन्तराण्यन्तरा नार्हति संशोधनं यथा तथाऽयमपि सहायभृतांस्त्रिचतुरांस्तज्ज्ञान्संशोधकान्विना न क्षमः परिशोधितुमिति । एवं च मुद्रणपथाद्विगलितोऽपि यायं मुद्रणाय नोपक्रम्येत चेदुत्तरोत्तरं लेखकपरम्परयाऽधिका

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 304