Book Title: Kahe Kalapurnasuri Part 04 Hindi
Author(s): Muktichandravijay, Munichandravijay
Publisher: Vanki Jain Tirth
View full book text
________________
श्रुतसलिल - सुपूर्णामाचरञ् शास्त्रवर्षां सकलमनुजचित्त क्लेशवह्नि निरस्यन् । नृगणहृदयभूमौ पोषयन् बोधिबीजम् जयति जगति मेघः श्री कलापूर्णसूरिः ॥ १६ ॥ मालिनी
-
अपूर्वस्त्वं राशी कोऽपि श्री कलापूर्ण ! विद्यसे । प्रयासि सततं वृद्धि क्षयं नैव कदाचन ॥ १७ ॥
भ्राजमाने कलापूर्ण ! भास्करे जगति त्वयि । अन्धा जना न पश्यन्ति दोषः किमत्र ते भवेत् ॥ १८ ॥
ममैकेच्छा कलापूर्ण ! वर्तते स्वान्तमन्दिरे । भवेयं त्वत्पदाब्जालि जिघ्राणो गुणसौरभम् ॥ १९ ॥
.
कलापूर्णाय पूज्याय मोहरात्रिविमुद्रिते । मामकीने मनोऽम्भोजे मार्तण्डाय नमो नमः ॥ २० ॥
.
वर्षति त्वयि सर्वत्र कलापूर्ण ! पयोधरे । दुर्भाग्यच्छत्र - संच्छन्नैः प्राप्यन्ते नाम्बुबिन्दवः ॥ २१ ॥
. अद्भुतो वर्तसे कोऽपि त्वं कलापूर्ण ! पञ्जरः ।
यतो बद्धा विमुच्यन्ते बध्यन्ते च विमुक्तकाः ॥ २२ ॥
कमलखण्डनिर्लेप ! कमलदलनिर्मलः ।। कमलसदृशास्य ! त्वं कलापूर्ण ! चिरं जय ॥ २३ ॥
विलोक्य त्वां कलापूर्ण, कलापूर्ण ! कलाधिपः । मन्येऽपूर्ण निजं मत्वा, प्रयातो गगनाङ्गणे ॥ २४ ॥
-
यदीये स्वान्तकासारे, लसति प्रभुपत्कजम् । श्रीमन्तं तं कलापूर्ण, वन्देऽहं भावतः सदा ॥ २५ ॥ - रचयिता : मुक्ति / मुनि, आधोई (कच्छ), वि.सं. २०३३
६०० ****************************** कहे क

Page Navigation
1 ... 650 651 652 653 654 655 656