Book Title: Jivdaya Prakaranam
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 123
________________ अथ प्रशस्तिः श्रीमते वीरनाथाय, कारुण्यपुण्यपाथसे । चरमतीर्थनाथाय, परोपकारिणे नमः ||१|| गौतमस्वामिने स्वस्ति, सुधर्मस्वामिने नमः | तत्परम्परयाऽऽयात-यतीन्द्रेभ्यो नमो नमः ।।२।। शुभ्राभ्रशुभ्रसन्तत्या-मेतस्यामभवत् किल । विजयानन्दसूरीशः, सुरीशसेव्यतां गतः ||३|| ततोऽपि कमलः सूरिः, संयमकमलाकरः | उपाध्यायस्तथा वीरो, वीर आन्तरविग्रहे ||४|| सर्वागमरहस्यज्ञ-स्ततो दानसूरीश्वरः । ततोऽपि प्रेमसूरीशः, सिद्धान्तैकमहोदधिः ।।५।। भुवनभानुसूरीश-स्ततो न्यायविशारदः | पंन्यासोऽस्यानुजः पद्मः, समतारससागरः ||६|| विराजते विनेयोऽस्य, मादृशेषु कृपापरः | वैराग्यदेशनादक्षः, श्रीहेमचन्द्रसूरिपः ||७|| तत्पादपङ्कजालिना, सूरिकल्याणबोधिना । सन्दृब्धोऽयं प्रबन्धस्तु, कुर्यात् सर्वस्य मङ्गलम् ||८||

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136