Book Title: Jain Sukta Sandoha
Author(s): Kailassagarsuri
Publisher: Kailas Kanchan Bhavsagar Shraman Sangh Seva Trust Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
३१८ असस्य कुतो विद्या १ । ३१९ विगंधधूपेन जयेत् पिशाचान्, सुगंधधूपेन् जयेद्धि देवान् । ३२० दृष्टानपिसतो दोषान् मन्यन्ते न हि रागिणः । ३२१ स्वहस्तेन च यद् दत्तं लभ्यते तन्न संशयः । ३२२ धर्मोऽयं धनवल्लभेषु धनदः, कामार्थिनां कामदः । ३२३ कलेवरे मूत्रपुरीषभाजने, लिपन्ति मृहा विरमन्ति पंडिता: । ३२४ कृपणेन संचिता लक्ष्मीरपरैः परिभुज्यते । ३२५ क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे । ३२६ अंगीकृतं सुकृतिनः परिपालयन्ति । ३२७ रिक्तपाणिर्न पश्येच्च, राजानं देवतां गुरुम् । ३२८ फलेन फलमादिशेत् । ३२९ आस्तन्यपानाञ्जननी पशूनाम् । ३३० शीलं परं भूषणम् । ३३१ प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति । (गीताजी) ३३२ भोगे रोगभयं । ३३३ वैराग्यमेवाभयम् । ३३४ अपूर्वः कोऽपि कामान्धो दिया वक्तं न पश्यति । ३३५ दुर्गतौ प्रपतत्प्राणिनो धारयतीति धर्मः । ३३६ मर्दनं गुणवर्धनम् । ३३७ क्षणे क्षणे यन्नवतामुपैति देव रूपं रमणीयतायाः । ३३८ लोकद्वयविरुद्धं च परस्त्रीगमनं त्यजेत् । ३३९ निर्द्रव्यो धनचितया धनपतिस्तद्रक्षण चाकुलो । ३४० अध्यात्मविद्या विद्यानाम् । ३४१ तीर्थेषु माता तु मता नितान्तम् । ३४२ जिह्वाग्रे मधु तिष्ठति हृदये तु हलाहलम् । ३४३ अजातमृतमूर्खाणां वरमायौ न चांतिमः । ३४४ तातस्य : क्रूपोऽयमिति ब्रुवाणाः, क्षारं जलं कापुरुषाः पिबन्ति । ३४५ पत्रं नैव यदा करीरविटपे दोषो वसंतस्य किम् । ३४६ नोलकोऽप्यवलोकते यदि दिवा, सूर्यस्य किं दूषणम् ? | ३४७ चतुरः सखि मे भर्ता यल्लिखति तत् परो न वाचयति । ३४८ तस्मादप्यधिको मे, स्वयमपि लिखितं स्वयं न वाचयति । ३४९ बिना गोरसं को रसो भोजनानाम् । ३५० दर्दुरा यत्र वक्तारः, तत्र मौनं हि शोभनम् । ३५१ तावच्च शोभते मूर्खो, यावत् किंचिन्न भापते । ३५२ स्वगृहे पूज्यते मूर्खः । ३५३ स्थानं प्रधानं न बलं प्रधानं, स्थानस्थितः कापुरुषोऽपि शूरः । ३५४ पुण्यस्य फलमिच्छन्ति, पुण्यं नेच्छन्ति मानवाः । ३५५ पयोऽपि शौण्डिनीहस्ते, मदिरां
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176