Book Title: Jain Sahitya Sanshodhak Samiti 1923
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Karyalay

View full book text
Previous | Next

Page 113
________________ ॥ ॐ अर्हम् ॥ ॥ नमोऽस्तु श्रमणाय भगवते श्रीमहावीराय ॥ ॥ उपकेशगच्छीया पट्टावलिः ॥ ॥ श्रीमत्पार्श्वजिनेंद्राय नमः ॥ श्रीमत्केशी कुमारगणधरेभ्यो नमः ॥ श्रीमद्रत्नप्रभसूरिसद्गुरुभ्यो नमः || ओकेशशद्वस्यार्थाः लिख्यते ।। इशिक ऐश्वर्ये, ओकेषु गृहेषु इष्टे पूज्यमाना सती या सा ओकेशा सत्यिका नाम्नी गोत्रदेवता । अल ओक शद्बो अकारांत : तस्यां भवस्तस्या अयमिति वा ओकेशः । भवे इत्यण् प्रत्ययः, तस्येदमित्यनेन वा अणप्रत्ययः । सत्यिका देवी हि नवरात्रादिषु पर्वसु अस्मिन् पूज्यते सा चास्य गणस्य अधिष्टाती अतएवास्य गच्छस्य ओकेश इति यथार्थ नाम प्रोद्यते सद्भिरिति प्रथमोऽर्थः ॥ १ ॥ ईशनमीशः ऐश्वर्य ओकैर्महर्द्धिक श्राद्धप्रमुख लोकानां गृहरीशो यस्यां सा ओकेशा ओसिका नयरी । तत्र भव ओकेशः । ओसिकानगर्यो हि अस्य गणस्य ओकेश इति नाम श्रीरत्नप्रभसूरीश्वरतो विख्यातं जातमिति द्वितीयोऽर्थः ॥ २ ॥ अः कृष्णः उः शंकरः को ब्रह्मा । एषां द्वंद्वसमासे ओकास्ते ईशते पूज्यमानाः संतो देवत्वेन मन्यमानाः संतश्च येभ्यस्ते ओकेशाः । ओके कृष्णशंभुब्रह्मभिर्देवैरीशते येते वा ओकेशाः । परशासनजनाः क्षत्रियराज्यपुत्रादयः प्रतिबोधविधानात्तेषामयं ओकेशः । तस्येदमित्यण्प्रत्ययः । श्रीरत्नप्रभसूरिभिस्तेषां पारतीर्थकधर्मनिष्ठातः सिद्धान्तोक्त विशुद्ध जैनधर्म्मनिष्ठायां प्रतिबोधदानेन प्रवर्तना कृता । तथा च श्रूयते पूर्व्वं हि श्रीरत्नप्रभसूरीणां गुरवः श्रीपार्श्वापत्यीयकेशीकुमारानगारसंतानयित्वेन विख्यातिमतो जगति जज्ञिरे । ततः प्राप्तसूरिमंताः ससत्तंत्रा रमणीयाऽतिशयनिचयाः स्वकीयनिस्तुषशमुखीप्राग्भारसंभारात् ज्ञातदिशसूरयः श्रीमच्छ्रीरत्नप्रभसूरयः कियति गते काले विहरतः संतः श्रीओसिका नगर्या समवसृताः । तस्यां च सर्वे लोकाः पारतीर्थिकधर्म्मधारिणो संति । न कोपि जैनधम्मर्धारी । ततः साध्वाचारं प्रतिपालयद्भिः सिद्धान्तोक्ततीर्थंकर धर्म्म शुभकर्मप्ररूपणां कुर्वद्भिः सद्भिः श्रीरत्नप्रभसूरिभिः पारतीर्थकानेकच्छेकविवेोकिलाका : प्रतिबोधितास्ततः एते ओकेशा इति विरूढ़ो विख्यातो जातः । इति तृतीयो अर्थः ॥ ३ ॥ अः कृष्णः, आः ब्रह्मा, उ: शंकरः, एषां द्वंद्वे आवस्ततः ओभिः कृष्णब्रह्मशंकरदेवैः कायते स्तूयते देवाधिदेवत्वादिति ओकः प्रस्तावात् श्रीवर्धमानस्वामी क्वचिदिति ड प्रत्ययः, ओकश्वासौ ईशश्व ओकेशस्तस्यायं ओकेशः वर्तमानतीर्थाधिपतिश्रीवर्धमानजिनपतितीर्थाश्रयणादिति चतुर्थोऽर्थः ॥ ४ ॥

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126