Book Title: Haimanushasana Trikam
Author(s): Kalapurnasuri
Publisher: Mahavir Tattvagyan Pracharak Mandal

View full book text
Previous | Next

Page 8
________________ लोऽभूदेव / 50 वर्ष पूर्व अध्यापकानामभावात् जैनसाधूनां च परिमितसङ्ख्यात्वात् एतदध्ययन मन्दतम सञ्जातम् / अतः श्रीजैनसङ्घः एतद् व्याकरणलाभात् बहूनि वर्षाणि यावत् दूरीभूत एवाऽऽसीत् / वर्तमानकाले पाश्चात्यकतिपयवर्षेषु एतव्याकरणा. ध्ययनप्रचारः पुनः वेगवानजनि / अनेकामण-श्रमण्यः, दीक्षार्थिनः, जैन-जैनेतरविद्वांसश्च अस्य व्याकरणस्य अध्ययने रसिकाः सजाताः सन्ति / अनेक युरोपीयविद्वद्भिरपि गहनावगाहनं कृत्वा तत्तद्देशतः अयं ग्रन्थः प्रकाशितोऽस्ति / साधारणधीजुषां सम्पूर्णव्याकरणकण्ठस्थीकरणं किल कठिनतरम् / किन्तु ते तत् सूत्रमात्र कण्ठस्थीकृत्य सरलतया व्याकरणक्षानसम्पादने प्रभविष्णवो भवन्ति / ततोऽधुना -सूत्रमात्रकण्ठस्थीकरणस्यापि प्रभूतः प्रचारः वर्तते / प्रस्तुतपुस्तके सिद्धहैमव्याकरणसूत्रानन्तरं लिङ्गानुशासन- काव्यानुशासन-न्यायसङ्ग्रहसूत्राणि चापि प्रदत्तानि सन्ति, यानि अध्येतृणां विशेषसहायकानि भविष्यन्तीति श्रद्धा नास्थाने / पूज्यपाद-कच्छवागडदेशोद्धारक-संयममूर्ति-आचार्य देवश्रीमद् विजयकनकसूरीश्वराणां प्रशिष्यवर्याऽध्यात्मयोगिनां 'परम-शासनप्रभावकाणां पूज्यगुरुदेवाचार्य केभीम विजय कलापूर्ण सूरीश्वराणां शुभाशीर्वादात् परमपूज्य-विद्वद्वर्य-मुनिराजश्री जम्बूविजयानां च मङ्गल प्रेरणातः अस्य पुस्तकस्य सम्पादन सुशक सञ्जातमस्ति /

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 182