Book Title: Gudhartha Tattvaloka Vyapti Panchak Vrutti
Author(s): Dharmadattasuri
Publisher: Dharmadattasuriji

View full book text
Previous | Next

Page 13
________________ व्याप्तिपञ्चकविवृतिः । भाववतो न वृत्तिर्विद्यते यत्र तत्साध्यभाववदवृत्ति तस्य भावस्तत्वमित्येव विग्रहं स्वीकुर्वन्त्यभियुक्ताः । व्यधिकरणबहुव्रीहिश्चायं हेतुःसाध्याभाववदवृत्तिरित्या देस्साध्याभाववदवृत्तपदो तरेण प्रत्ययादिना निर्वाहासम्भवेन स्वीकरणीयः / एवं व्यधिकरणबहुव्रीहेरुदाहरणान्तरस्य सत्त्वेऽपि तद्वशेनात्र व्यधिकरणबहुव्रीहिस्वीकारासम्भवात्तस्यासार्वत्रिकत्वादुक्तप्रयोग एवोदाहरणतया वक्तव्य इति दिक् ॥ ० ॥ * जगदीश्यामिदश्चेति अव्याप्यवृत्तिसाध्यकसद्धेतावव्याप्ति दानञ्चे. त्यर्थः । साध्यतावच्छेदकावच्छिन्नाभावप्रवेशेपि संयोगसम्बन्धावच्छिघटाभावस्य समवायावच्छिन्नवह्न्यभावस्य च तादृशतया तमादाय व्याप्यवृत्तिसाध्य केऽव्याप्तिःस्यादतो धर्मविधया यः साध्यतावच्छेदको धर्मविधया तदवच्छिन्नत्वस्य संसर्गविधया यः साध्यतावच्छेकः संसर्गविधया तदवच्छिन्नत्वस्य प्रतियोगितायां प्रवेशसूचनायाह "येनरू. पेण येन सम्बन्धेनेति" । अथ साध्यतावच्छेदकीभूतधर्मावच्छिन्नत्वे सति साध्यतावच्छेदकीभूतसम्बन्धावच्छिन्नत्वप्रवेशेऽपेि घटाभावादिवारणसम्भवाद्धर्मसंसर्गविधया तदवच्छेदकत्वप्रवेशो व्यर्थ इति चेन्न तत्समवायिनः संयोगेन साध्यतायां तत्समवायिनः समवायेनाभावीयप्रतियोगिताया वारणाय साध्यतानिरूपित संसर्गतावन्निष्ठावच्छेदकताकत्वस्य तत्संयोगिनः संयोगेनाभावप्रतियोगिताया वारणाय साध्यतानिरूपित किञ्चित्सम्बन्धावच्छिन्नावच्छेदकतावन्निष्टावच्छेदकत्वस्य प्रवेशनीयत्वात्, संयोगिनः समवायेनाभावीयप्रतियोगितावारणाय व प्रतियोगितावच्छेदकताया अपि धर्मसंसर्गविधयाप्रवेशनीयत्वात् । वस्तुतः साध्यतावच्छेदकधर्मावच्छिन्नत्वस्य साध्यतावच्छेदकातिरिक्तधर्मानवाच्छन्नत्वरूपस्यैव वाच्यतया तत्र साध्यतानिरूपितधर्मविध'यावच्छेदकतावदितरनिष्ठाबच्छेदकत्वानिरूपितस्वमात्रप्रवेशे तादशा तिरिक्तसंसर्गमादायासंभवस्स्यादिति धर्म्मविधयावच्छेदकत्वानिरूपितत्वं साध्यतावच्छेदकसम्बन्धावच्छिनत्वस्यापि साध्यतावच्छेदकसम्बन्धातिरिक्तसम्बन्धानवच्छिन्नत्वरूपस्यैव वाच्यतया तादृशसंसर्गातिरिक्तनिष्ठावच्छेदकत्वानिरूपितत्वमात्रप्रवेशे तादृशसंसर्गाति रिक्तधर्म्ममादायासम्भवस्स्यादिति संसर्गविधयावच्छेदकत्वानिरूपि तस्थं च प्रवेशनीयम् । एतेन संयोगिनस्समवायेनाभाववारणाय धर्म

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48