Book Title: Gita Dohan Va Tattvartha Dipika
Author(s): Krushnatmaj Maharaj
Publisher: Avdhut Shree Charangiri Smruti Trust
View full book text
________________
ॐ तत्सत्
श्रीविज्ञाननौका
तपोयज्ञदानादिभिः शुद्धबुद्धिर्विरक्तो नृपादौ पदे तुच्छबुद्धथा । परित्यज्य सर्व यदामोति तत्त्वं परं ब्रह्म नित्यं तदेवाहमस्मि ॥१॥ दयालु गुरुं ब्रह्मनिष्ठं प्रशान्त समाराध्य भक्त्या विचार्य स्वरूपम् । यदामोति तत्त्वं निदिध्यास्य विद्वान् परं ब्रह्म नित्यं तदेवाहमस्मि ॥२॥ यदानन्दरूपं प्रकाशस्वरूपं निरस्तप्रपञ्च परिच्छेदशून्यम् । अहं ब्रह्मकृत्यैकगम्यं तुरीयं परं ब्रह्म नित्यं तदेवाहमस्मि ॥३॥ यदज्ञानतो भाति विश्वं समस्तं विनष्टं च सद्यो यदात्मप्रबोधे । मनोवागतीतं विशुद्धं विमुक्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥४॥ निषेधे कृते नेति नेतीति वाक्यैः समाधिस्थितानां यदा भाति पूर्णम् । अवस्थात्रयातीतमद्वैतमेकं परं ब्रह्म नित्यं तदेवाहमस्मि ॥५॥ यदानन्दलेशैः समानन्दि वि यदा भाति सत्त्वे तदा भाति सर्वम् । . यदालोचने हेयमन्यत्समस्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥६॥ अनन विभुं सर्वयोनि निरीहं शिवं सङ्गहीनं यदोङ्कारगम्यम् । निराकारमत्युज्ज्वलं मृत्युहीनं परं ब्रह्म नित्यं तदेवाहमस्मि यदानन्दसिन्धौ निमग्नः पुमान्स्यादविद्याविलासः समस्तपपश्चः । तदा न स्फूरत्यद्भूतं यनिमित्तं परं ब्रह्म नित्यं तदेवाहमस्मि स्वरूपानुसन्धानरूपां स्तुतिं यः पठेदादराद्भक्तिभावो मनुष्यः । शृणोतीह वा नित्यमुद्युक्तचित्तो भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥९॥ विज्ञाननावं परिगृह्य कश्चित्तरेद्यदज्ञानमयं भवाब्धिम् ज्ञानासिना यो हि विच्छिद्य तृष्णां विष्णोः पदं याति स एव धन्यः ॥१०॥
॥७॥
॥८॥
इति श्रीमत्परमहसपरिव्राजकाचार्य श्रीमच्छङ्कराचार्यविरचितं विज्ञाननौकास्तोत्रं सम्पूर्णम् ॥

Page Navigation
1 ... 1073 1074 1075 1076 1077 1078