Book Title: Ek Vignapti patra
Author(s): Ratnakirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ 15 यथा ...... सदसि सुगुरूपासकसभा सदिभ्यश्रेणीहर्षपुषि सकलामर्षमुषि सत् ॥३४॥ चरमसमयवीरदन्तालयोत्पत्तिसारोत्तराध्ययनविरचना सवृत्तिप्रियाख्यानमध्यापनम् । भवजलनिधितारकादिष्टप्रज्ञापनावाचनं वरमिति सुकृतं वरीवर्ति श्रीभवन्नामतः ॥३५॥ वृषचन्द्रकुलोत्तमे क्रमागत इति भीत्यभावे प्रियपर्युषणाभिधानपर्वणिसमपर्वरत्ने । सुनवक्षणकल्पसूत्रवाचनमुषसि द्विसन्ध्यं ७ सुतपस्तपनं वनीपकद्रविणविसर्जनं सत् । परमार्हतपोषणं मुदाऽभवद् ऋषिपर्वकृत्यं भवदत्र भवक्रमस्मृतिप्रभववृषप्रभावात् ।।३६।। तपागच्छाधीशो जयति जगदानन्ददानप्रसक्तो निजोत्पत्तिक्ष्मायां किल विजयसिंहाह्वयः सूरिराजः । जगत्या मत्या वा कृतगजजयस्स्वीययाथार्थ्यगोत्रा - दनूचानस्वामी परिवृढनतो मेघविस्फूर्जितायाः ॥३७॥ स्वाहा जक्षणवेश्मनी न्द्रभवनस्तम्बेरमाऽश्वादयो मध्यस्थे शशिचन्द्रिकाहिम कुमृद्वक्त्रा (च्चक्रा)ङ्गदुग्धादयः । पाताले बलिकुण्डनागपतयो जानेऽवदाता यत स्त्रैलोक्ये यशसस्तवैष गणभृच्छार्दूलविक्रीडितम् ॥३८॥ श्रीनाथूवंशनक्षत्र सृतिदिनमणीनां कीर्तिललना राढापूर्णात्मजैवातृकघृणिकमनी येषामतिरसात् । अष्टाऽऽशायां प्रगीता मनुजसुवदना योषाभिरभवत् श्रोतुं जानीमहे कि जगति किल विधाताऽष्टश्रुतिरयम् ।।३९॥ १. शिखरिणीवृत्तम् । २. नाराचवृत्तम् । ३. धर्म । ४. चन्द्रशब्दः द्योतक : । ५. प्रशस्य । ६.सर्व । ७. वेलम् । ८.पुण्य । ९. तत्परः। १०. मेघ विस्फूर्जितावृत्तम् । ११. देव । १२. गृह । १३. पर्वत । १४. हंस । १५.शार्दूलविक्रीडितवृत्तम् । १६. नभः । १७. दिशि । १८. सुवदनावृत्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7