Book Title: Dwadashparvi Vyakhyanam
Author(s): Kshamakalyan Upadhyay
Publisher: Kshamakalyan Upadhyay

View full book text
Previous | Next

Page 198
________________ Shri Mahavir Jain Aradhana Kendra • ॥९६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृषभ मुखबन्धनादिक्रियोपदेशं कर्षकांश्चक्रे । तस्मिन् क्षणे तैर्बन्धनमुपगतैर्बलीवदैर्निःश्वासनां षष्ट्यधिकत्रिशतीर्मुमुचे । तद्विलोक्य भगवान् ऋषभदेवः अत्र भवे वर्षमेकं याव दाहारं न गृहीष्य इति प्रतिज्ञाय वर्षोंकें यावन्न बुभुजे । समाप्ते च वर्षे तत्कर्मक्षयं ज्ञात्वा श्रेयांसगृहमागत्य पारणं कृतवान् । तद्दानफलेन श्रेयांसोपि मुक्तिसुखभाग्वभूव । तद्दिनादेव खोघुभ्यस्साधूस्य वर्षाणामेकसहस्रं यावलोकषु विहृत्य तपस्तेपे । तमैव कर्मचतुष्टयं क्षपयित्वा केवलज्ञानं प्राप्य बहून भव्यान् प्रतिबोध्य मोक्षं जगाम । अत एव भो भव्याः यूयमपि मोक्षमार्गे बव्हादरेण यतध्वम् इत्येव जन्मनो श्रेयान् लाभः । इति । | अक्षयादि तृतीयायाःव्याख्यानं वीक्ष्य प्राक्तनं । अलेखि सुगमं कृत्वा क्षमाकल्याणपाठकैः ॥ इत्यक्षय तृतीयाव्याख्यानं समाप्तम् || शुभंभूयात् ॥ ॥ समाप्त मिदम्पुस्तकम् ॥ For Private and Personal Use Only व्या ॥९६॥

Loading...

Page Navigation
1 ... 196 197 198 199 200