Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 7
________________ परतश्च जातिव्यक्त्यात्मकं तत्त्वमिति वैशेषिकमतं व्यवस्थाप्यते, जातिः शब्दार्थः, अन्त्यञ्च पदं वाक्यार्थः, नैगमैकदेशो द्रव्यार्थः, द्रव्यत्वसामान्यविशेषसम्बन्धाद्रव्यमिति निरूपितम् । तत्र तृतीयभन्ने मूलकृता परिगृहीतानि परेषां वचनानि _ 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यतेऽर्थसद्भावात् , यथा वृक्ष इति, अस्तीति गम्यते' (महाभा० अ० २ पा० ३ सू० १) .'अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥' (श्वेता० अ० ४ श्लो० ५) 'सुखञ्च दुःखञ्चानुशयञ्च वारणायं सेवते तत्र तत्र । विशन्ति योनि व्यतिरेकिणस्त्रयः अजस्तु जायामत्ति सत्यशुद्धः ॥' (युक्तिदीपिकापां पूर्वार्धमात्रसाम्यपाठो दृश्यते । ) 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषखजाते । तयोरन्यः पिप्पलं खाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥' (मुण्डको० उ०१-१) 'णिच्छयओ सबलहुँ' ( 'अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा' (म० भा० वन० अ० ३० श्लो० २८) "एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषाम् ॥' (श्वे० ६-२०) - 'दुविहा पण्णवणा पण्णत्ता, जीवपण्णवणा अजीवपण्णवणा च' (पण्णव० सू० १) 'किमिदं लोएत्ति पवुच्चई गोयमा ! जीवा चेव अजीवा चेव, एवं रयणप्पभा जाव ईसीपब्भारा समयावलियादि' (स्था० २ उ० ४) चतुर्थारे 'पृथिवीधातौ किं सत्यं ? विकल्पः, विकल्पे किं सत्यं ! ज्ञानं, ज्ञाने किं सत्यं ? ओम् , तदेतद्ब्रह्म' 'जे एगणामे से बहुणामे' (आ० १ श्रु० ३ अ० ४ उ०, सू० १२४) पञ्चमारे 'न हीह कश्चिदपि स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते वर्द्धते वा यावदनेन वर्द्धितव्यमपायेन वा युज्यते' (महाभा० अ० ४ पा० १ सू० ३) 'प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः, प्रत्ययपरैव प्रकृतिः' (महाभा० अ० १ पा० १ सू० २) 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति' (महाभा० अ० २ पा० ३ सू० १) 'लः कर्मणि च०' (पा० अ० ३ पा० ४ सू० ९६) 'अत्थितं अत्थित्ते परिणमति' (भग० श० १ उ० ३ सू० ३३) Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 350