Book Title: Digvijaya Mahakavya
Author(s): Meghvijay, Ambalal P Shah
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
दिग्विजयमहाकाव्यम्
कतिपयदिनस्थित्याऽऽदेशप्रभुः सुमनःप्रियः क्षणकरणतः सर्वानीतिं व्युदस्य सदस्यतः । जिनमतमतः शिक्षाकल्पादिनाद्भुतमुन्नयन् विनयिनयनाऽऽनन्दी बन्दीडितः शुशुभेतमाम् ॥ ९ ॥ [ इति आगरानगर विजयवर्णनम् ] मधु मधुरिमप्रागल्भ्येन भ्रमद्भिरलिव्रजै
विजयसमय प्रज्ञप्त्येवाभिनीतजयाऽऽरवैः । स विभुरचलन्नुन्नः पुर्या जयश्रियमुद्वहन्
विविधनिनदद्वाद्यैः सद्यः समं कृतमङ्गलः ॥ १० ॥ अवसरवशात् प्राप्तं सौरं महः समहामह
महमहमिकावेशादेशादिवैक्ष्य रवेः सुता । चपलकलिकाहस्तैः शीर्षे विवोदुमिवोल्लसद् वहनमुचितं तस्यादेशप्रभोः पुरतो ददौ ॥ ११ ॥ पुरजनवधूनानैः पानैः परोपकृतौ पटोः
कथमिव गतिर्नीचैर्नूनं ममेति पुरो गुरोः । तरणितनया प्रष्टुं पादप्रसादमवाप्य किं
नमनमनसा भक्तेस्तवोल्ललास विलासिनी ॥ १२ ॥ जडपरिचयाज्जाग्रत्तेजोनिधेर्दुहितुर्मम
द्विजजनघनस्नानोद्भूतान्मलादिव कालिमा । भवतु सहसा पूरे दूरे क्रमाम्बुजसंगमा
दिति रसभराद् वीची हस्तैर्ननर्त्त पुरोऽस्य सा ॥ १३ ॥ हरिरिह पुरा गम्यां रम्यां चिरं चकमे रसादू विषयविवशस्तद्देहस्य द्युतिः स्तुतिभाजनम् । तर बहुप्रीत्याद्यापि व्यमोचि न साऽनया तदयमुदयत्यन्तरं परं नवनीलिमा ॥ १४ ॥ मुरपुररिपू कामं कामोदयेन सरिद्वरा
मभिललषतुस्ताभ्यां रेमेऽनयांऽहिशिरःस्थया । उपपतिसदृग् वेषाद् द्वेधाऽभिसारिकया ततो द्वितयमभवत् कालन्द्येकाऽपरा हरशेखरा ॥ १५ ॥ गुणपरिणता वेणी वैणीदृशो वसुधाकृते
स्तपनतनया हंसोत्तंसप्रसून विदभिता । रमणविषयप्रावीण्यं किं न दीपयति स्म सा
पुलिनजघनद्वैतं वेगक्रमात् स्पृशती सती ॥ १६ ॥
पद्य १-१६ ]
दि० म० १४
Jain Education International
For Private Personal Use Only
१०५
5
10
15
20
25
63
www.jainelibrary.org

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184