Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 26
________________ धर्म - ॥ ११ ॥ तस्यास्तेनेतिवाक्येन स हितोऽपि निराकृतः । किं वा न कुरुते रक्तो, रामाणां वचसि स्थितः १ ॥ २६८ ॥ सद्वाक्यमविचाराणी, दत्तं दत्ते महाभयम् । पयःपानं भुजङ्गानां हितकारि कथं भवेत् ? ।। २६९ ॥ हितेऽपि भाषिते दोषो, दीयते निर्विचारकैः । परैरपीह रागान्धे - प्रीमकूटसमैः स्फुटम् ॥ २७० ॥ इत्थं रक्तो मया विप्राः ! सूचितो दुष्टचेष्टितः । इदानीं श्रूयतां द्विष्टः सूच्यमानो विधानतः ॥ २७१ ॥ ग्रामकूटावभूतां द्वौ, कोटीनगरवासिनौ । प्रथमः कथितः स्कन्दो, वक्रो वक्रमनाः परः ॥ २७२ ॥ भुआनयोस्तयोर्ग्राममेकं वैरमंजायत । एकद्रव्याभिलाषित्वं, वैराणां कारणं परम् ॥ २७३ ॥ दुर्निवारं तयोर्जातं, काककौशिकयोरिव । निसर्गजं महावैरं, प्रकाशतिमिरैषिणः (णोः) ॥ २७४ ॥ वक्रः करोति लोकानां, सर्वदोपद्रवं परम् । सुखाय जायते कस्य, वक्रो दोषनिविष्टधीः १ ॥ २७५॥ वक्रः कदाचन व्याधिमवाप प्राणनाशनम् । योऽन्येषां कुरुते दुःखं, स किं सौख्यमवाप्नुयात् ? ॥ २७६ ॥ सुतस्तदीयस्तं प्राह, कुरु धर्म्म पवित्रधीः । यः करोति परलोके सुखानि सकलाङ्गिनाम् ॥ २७७ ॥ नायाति धनपुत्रादिः, परलोके सहात्मनः । एकमेव कृतं कर्म्म, सुखदुःखविधावलम् ॥ २७८ ॥ न परो वा निजः कोऽपि, संसारे भ्रमदङ्गिनाम् । ज्ञात्वेति कुमतिं हित्वा परलोकहितं कुरु ॥ २७९ ॥ अपास्य मोहं पुत्रादौ, धनं पात्रे निवेशय । देवं संस्मर चाभीष्टं, लभसे सद्गतिं यतः ॥ २८० ॥ 1 कारने पाह परीक्षा. ॥ ११ ॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124