Book Title: Dharmpariksha Katha
Author(s): Padmasagar Gani
Publisher: Devchandra Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥१७॥
* सपना
क्रीडया विपुलक्रीडो, निर्गतो बहिरेकदा । देवीयः स गतो हित्वा, सैन्यं मत्रीद्वितीयकः ॥ ४२४ ॥ सुनामपरीक्षा दृष्ट्वकमग्रतो भृत्य, भूयोऽभाषत मन्त्रिणम् । कोऽयं ना ? कस्य भृत्योऽयं, पुत्रोऽयं कस्य कथ्यताम् ॥ ४२५ ॥ मन्त्री ततोऽवदद्देव ! ख्यातोऽयं हालिकाख्यया । हरेमहत्तरस्यात्र, तनुजस्तव सेवकः ॥४२६ ॥ देवकीयक्रमाम्भोजसेवनं कुर्वतः सतः। द्वादशैतस्य वर्तन्ते, वर्षाणि क्लेशकारिणः ॥ ४२७ ॥ मन्त्री भूपतिनाऽभाणि, विरूपं भवता कृतम् । भद्रेदं कथितं यन्न, मया(मा)स्य क्लेशकारणम् ॥ ४२८ ॥ पदाति क्लिष्टमक्लिष्टं, सुसेवकमसेवकम् । समस्तं मन्त्रिणा ज्ञात्वा, कथनीयं महीपतेः ॥ ४२९ ॥ खाध्यायः साधुवर्गेण, गृहकृत्यं कुलस्त्रिया । प्रभुकृत्यममात्येन, चिन्तनीयमहर्निशम् ॥ ४३० ॥ ततो भूपतिनाऽवाचि, हाकिस्तुष्टचेतसा । शङ्खराढाभिधं भद्र! मडम्बं स्वीकुरुत्तमम् ॥ ४३१ ॥ युक्तं भद्र ! गृहाणेदं, ग्रामैः पञ्चशतप्रमैः । ददानैर्वाञ्छितं वस्तु, कल्पवृक्षैरिवापरैः ॥ ४३२ ॥ हालिकेन ततोऽवाचि, निशम्य नृपतेर्वचः । किं करिष्याम्यहं ग्रामैरेकाकी देव ! भूरिभिः॥ ४३३ ॥ गृहीतुं तस्य युज्यन्ते, दीयमानाः सहस्रशः । ग्रामाः पदातयो यस्य, विद्यन्ते प्रतिपालकाः ॥ ४३४ ॥ स ततो गदितो राज्ञा, भद्र ! ग्रामैमनोरमैः । विद्यमानैः स्वयं भृत्या, भविष्यन्ति प्रपालकाः ॥४३५॥ मामेभ्यो जायते द्रव्यं, द्रव्यतो भृत्यसम्पदः । भृत्यैर्निषेवितो राजा, द्रव्यतो नोत्तमं परम् ॥ ४३६ ॥
॥१७॥

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124