Book Title: Concept of Divinity in Jainism
Author(s): P Ajay Kothari
Publisher: Prakrit Bharti Academy

Previous | Next

Page 246
________________ एते अजयकुमारः नामकः कोठारी अन्यैः अजय्यं स्थानं साहित्य - स्वधर्मप्रचरणविषये च समासादितवन्त: । तदीयं प्रवर्तनमण्डलं न केवलं चेन्नै वा वाराणसी वा, किंतु आभारतं व्याप्तं वर्तते। देशान्तरेष्वपि तदीयकीर्तिः व्याप्ता स्यादित्याशास्महे। उद्योगे न्यासवादी भूत्वापि, स: कस्याश्चन संस्कृतानुसन्धान - संस्थाया: निर्देशकः, मध्ये चेन्नै विश्वविद्यालये जैनसिद्धान्तविभागे पाठनं चानुष्ठीयते। एवं भिन्न-भिन्नमण्डलेषु संस्कृतसाहित्यसेवां जनसेवां च कृतवतां पुण्यात्मनां ज्ञानस्फुलिङ्गात्मकमिदं बहुजनानां जिज्ञासूनां अनुसन्धानछात्राणां इतरसज्जनानां च उपयोगाय समर्थयितुमतीव मे प्रमोदः।। चेन्नै गुरुपूर्णिमा, २००० ____ डॉ. टि. नारायणन् कुट्टी प्राक्तन-निर्देशक: .दि कुप्पुस्वामी शास्त्री रिसर्च इन्स्टिट्यूट, चेन्नै Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 244 245 246 247 248