Book Title: Concept of Divinity in Jainism
Author(s): P Ajay Kothari
Publisher: Prakrit Bharti Academy

Previous | Next

Page 245
________________ अनितरसाधारणीया वाणीविलासमहिमा यदेषा विलसति विचारातीतानादिकालप्रचरितवेदवाङ्मयस्वरूपादारभ्य अत्यन्ताधुनिकाद्यतनीय - भारतविचारविनोदेषु, तत्त्वसहितासु, दैनंदिनाचार सम्प्रदायपरम्परासु सर्वासु च निरन्तरम्। दैविकी सा भाषा जनमनस्सु प्रतिस्फुरन्ती, नूतनसहस्राब्धे तु विशेषतया पुनः प्रतिष्ठायमाना दृश्यते । एषा सांस्कृतिकी वाणी नवीनाधुनिक विज्ञानशाखाभ्यः भिन्नदेशीयसिद्धान्तेभ्यः विविधलोकभाषाभ्यश्च वाक्यानि पदानि वा स्वायत्तीकृत्य स्वयं संस्कृतीकृत्य शनै: भाषणभाषागृहद्वारोपस्थिता विराजते । सहस्राब्धेऽस्मिन् नूनं भाषितभाषात्वेन हृदयावर्जकत्वं आसेतुहिमाचलं पुनर्स्थाप्येत इत्याशास्महे । इयं भाषा भारतीय युरोपीय भाषापरिवारस्य मूलोद्गमस्रोतो रूपा इत्येतत् विपुलविदितमेव । स्वकीयसंस्कारवैशिष्ट्यतया चास्यां स्वल्पतमेषु शब्देषु गहनतमं रूढमूलं विपुलं अर्थविशेषं वोढुं प्रकाशयितुं च अनुपमा क्षमता दरीदृश्यते । हेतुमेनमवलम्ब्य वैदिकार्हतसौगतादिविविधपरंपराश्रिताः ग्रन्था अस्यां भाषायां नवनवतया उत्पद्यमानाः दृश्यन्ते । -६ अभिनन्दन: तत्रापि मूलसिद्धांन्तान्तर्गततत्त्वानां विमर्शनात्मकमध्ययनं विशेषतया तस्यापि अन्यसिद्धान्तैस्सह समतुलनात्मकमध्ययनं विरलं विराजते । अवगतानां समन्वितानां च तत्त्वानां आंग्लभाषाद्वाराप्रकाशनं विरलत्या खलु प्रवर्तते । विषयेऽस्मिन् श्रीमन्तः अजयकुमार कोठारी महाशयाः सुश्रद्धां अर्हन्ति । कृतभूरिश्रमाः ते दैविक संकल्पमधिकृत्य जैनसिद्धान्तस्य विशेषप्राधान्यं मनसि निधाय अनुसन्धानात्मकं अध्ययनं कृतवन्तः । अत्र तु द्योतमानत्वविशिष्टं यत् तत्त्सर्वं दैविकत्वमेवेत्यर्थं स्वीकृत्य विपुलं विचारं प्रवर्तते । सनातनतत्त्वान्तर्गत दैविकत्वविचारमधिकृत्य विस्तृतं विमर्शनं कृतं दृश्यते प्रथमाध्याये । तत्रैव न्यायवैशेषिकसांख्यपूर्वमीमांसावेदान्तेषु दैविकतत्त्वं कथं परामर्श्यते इति पृथक् विचारयते । दिव्यत्रिपिटकानां समीक्षणं कृत्वा गौतमबुद्धस्य धर्मे दैविकं तत्त्व मधिकृत्य निब्बाननामकं निर्वाणमधिकृत्य कृतः दीर्घः विचारः सुविज्ञेयः । विशेषोऽयं यत् जैनदर्शनस्य मूलतत्त्वनिर्वचनार्थं तत्रत्यं दैविक प्रकाशनार्थञ्च अध्यायद्वयात्मकमध्ययनं कृतमिति । निगमननिरूपणे कृतेऽनेन जैनदर्शन पार्थक्यमन्यदर्शनेभ्यः अनुशील्यते च । , Jain Education International For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248