________________
चिकित्साकलिका। साम्यं प्रकृतिरुच्यते। सुखसंज्ञकमारोग्यं विकारो दुःखमेव च ।" रोगा व्याधयः । तथा च चरकः-"तत्र व्याधिरामयो गद आतंको यक्ष्मा ज्वरो विकारो रोग इत्यनर्थान्तरमिति" ॥ ४॥ ।
शरीरधारियों का जो शरीर पृथिवी, जल, तेज, वायु, आकाश इन पञ्चमहाभूतों से तथा सत्व, रज, तम इन तीन गुणों से एवं त्वचा, दोष (वात, पित्त, कफ), धातु, मल, मर्म, शिरा आदियों से व्याप्त है, वह ही रोगाधिष्ठान है, उसी की चिकित्सा होती है । चेतनस्वरूप पुरुष चिकित्सा में अष्टि नहीं ॥४॥
साम्प्रतं ये चतुर्भेदभिन्नाः सप्तभेदभिन्नाश्च पूर्व व्याख्याता विकारास्तेषां वातादिवैषम्येन त्रैविध्यादिभेदख्यापनायाह
ते वातपित्तकफजास्त्रिविधा द्विधा च
काये मनस्यपि च सन्त्यपरे नराणाम् । . साध्याः क्वचिद् क्वचिदपि प्रभवन्ति याप्याः
केचित्क्वचित्पुनरसाध्यतमाः प्रदिष्टाः ॥ ५ ॥ ते इति तद्ग्रहणात् यत्तदोर्नित्यमभिसम्बन्ध इति । ये तत्पूर्वमनेकभेदभिन्ना व्याख्याता विकारास्ते सर्वे वातपित्तकफजाः सन्ति भवन्ति । वातश्च पित्तं च कफश्च वातपित्तकफास्तेभ्यो जाता वातपित्तकफजाः। ते चानुबन्ध्यानुबन्धकभेदेन बहुविधाः । उक्तश्च-स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्यः। तद्विपरीतलक्षणश्चेत्यनुबन्धकः । त्रिविधास्त्रिप्रकाराः। तथा च चरकः-'त्रिविधाव्याधयो भवन्त्याग्नेयसौम्यवायव्याः। न केवलं त्रिविधाः द्विधा च संभवन्ति राजसतामसभेदेन' । तथा चात्रेयः-“द्विविधाश्चापरे राजसास्तामसाश्च"। पुनरधिष्ठानभेदेन द्वैविध्यप्रतिपादनायाह 'काये मनस्यपि च सन्त्यपरे नराणाम् ।' काये शरीरे मनसि च सत्वसंज्ञके अपरे भवन्ति नराणां प्राणिनाम् । तथा च सुश्रुताचार्यः-'त एते मनःशरीराधिष्ठानाः' । पुनरप्यन्यत्साध्ययाप्यप्रत्याख्येयभेदेन त्रैविध्यं प्रतिपादयति । साध्यः क्वचिन्मर्मादिविमुक्त कार्य सिद्धयति । द्विविधं साध्यमाह-सुखसाध्यं दुःखसाध्यं च । क्वचिदपि शरीरे याप्याः प्रभवन्ति । केचिद् रोगाः क्वचित् शरीरे पुनरसाध्यतमाः प्राणनाः प्रदिष्टाः