Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
परिशिष्टम् ।
दानाशाय करप्रहाच सकलं लोकं व्यधालक्ष्मणं
यो बिंबे मृगलक्ष्मणोपि यशसा सौवामिधानं व्यधात ॥२ तदीयसिंहासनपूर्वशैलप्राप्तोदयो युग्रतरप्रतापः ।
श्रीवैरसिंहक्षितिपालभानुर्विभासते वैरितमो निरस्यन् ॥ ३ इतश्च ॥ चंद्रकुले श्रीखरतरविधिपक्षे ।
श्रीवर्धमानामिधसूरिराजो जाताः क्रमादर्बुदपर्वताये। मंत्रीश्वरश्रीविमलामिधानः प्राचीकरधद्वचनेन चैत्यं ॥१ अणहिलपाटकपुरे यैर्दुर्लभराजपर्षदि विवादे ।
प्राप्तं खरतरबिरुदं जिनेश्वरास्सूरयो जजुः ॥ २ ततः क्रमेण श्रीजिनचंद्रसूरिनवांगीकृत्तिकारश्रीस्तंभनपार्श्वनाथप्रकटीकारश्रीअभय देवसूरिश्रीपिंटविशुष्यादिप्रकरणकारश्रीजिनवल्लभसूरिश्रीअंबिकादेवताप्रकाशितयुगप्रधानपदश्रीजिनदत्तसूरिश्रीजिनचंद्रसूरिश्रीजिनपतिसूरिश्रीजिनेश्वरसूरिश्रीजिनप्रबोधरिश्रीजिनचंद्रसूरिश्रीजिनकुशलसूरिश्रीजिनपद्मसूरिश्री. जिनलब्धिसूरिश्रीजिनचंद्रसूरयः श्रीजिनशासनं प्रभासितवंतः ॥ ततः।
श्रीगच्छलक्ष्मीधरणे जिनोदयाः प्रकाशितप्राज्ञसभाजिनोदयाः । कल्याणवार्डोदशवाजिनोदयाः पाथोजहंसा अभवम् जिनोदयाः ॥१ जिनराजसूरिराजः कलहंसा इव बभुर्जिनमताब्जे ।
सन्मानसहितगतयः सदामरालीश्रिता विमलाः ॥ २ तत्प४ ॥ ये सिद्धांतविचारसारचतुरा यानाश्रयन् पंडिताः
सत्यं शीलगुणेन थैरनुकृतः श्रीस्थूलभद्रो मुनिः । येभ्यः शं वित्नोति शासनसुरी श्रीसंघदीप्तिर्यतो ___ येषां सार्वजनीनमाप्तवचनं येष्वद्भुतं सौभगं ॥" श्रीउजयंताचलचित्रकूटमांडव्यपूर्जाउरमुख्यकेषु । स्थानेषु येषामुपदेशवाक्यान्निर्मापिताः श्राद्धवरैर्विहाराः ॥२ अणहिलपाटकपुरप्रमुखस्थानेषु यैरकार्यत । श्रीज्ञानरत्नकोशा विधिपक्षश्राद्धसंघेन ॥३ मंडपदुर्गप्रल्हादनपुरतलपाटकादिनगरेषु । यैर्जिनवरबिंबानां विधिप्रतिष्ठाः क्रियते स्म ॥ ४ यैर्निजबुद्ध्यानेकांतजयपताकादिका महाग्रंथाः । पाव्यते च विशेषावश्यकमुख्या अपि मुनीनां ॥ ५ कर्मप्रकृतिप्रमुखग्रंथार्थविचारसारकथनेन । परपक्षमुनीनामपि यैश्चित्तचमत्कृतिः क्रियते ॥ ६ छत्रधरपैरिसिंहत्र्यंबकदासक्षितींद्रमहिपालैः । येषां चरणद्वंद्वं प्रणम्यते भक्तिपूरेण ॥ ७ शमदमसंयमनिधयः सिद्धांतसमुद्रपारदृश्वानः ।
श्रीजिनभद्यतींद्रा विजयंते ते गणाधीशाः ॥८ इति श्रीगुरुवर्णनाष्टकं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180