Book Title: Be Sarasvati Stotra Author(s): Ratnakirtivijay Publisher: ZZ_Anusandhan View full book textPage 3
________________ ( २६ ) वाग्बीजं स्मर बीजवेष्टितमतो ज्योति: कलाभृद्बहिरष्टद्वादशषोडशद्विगुणितद्विष्टाब्जपत्रान्वितम् । तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे, हंस : कूड (ट) युतं भवेदवितथं यन्त्रं तु सारस्वतम् ॥ १० ॥ श्रीं स[ह]हीँ सबीजकलितां वाग्वादिनीदेवतां, गीर्वाणासुरपूजितामनुदिनं काश्मीरदेशे भवाम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं, बुद्धिज्ञानविचारसारमहितः स्याद्देव्यसौ साम्प्रतम् ॥११॥ स्मृत्वा यन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थं, चेतः स्निग्धोर्द्धनालं हृदि च विकचितां बाष्पनिर्यातना स्यात् । तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तकाम्भोजपार्णी (णि), वाग्देवीं तन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥१२॥ किमिह बहुविकल्पैश्चिन्तितैर्यस्य कण्ठे, लुठति विमलवृत्तस्थूलमुक्तावलीयम् । भवति भवति नाथे भव्यभाषाविशेषैमधुरमधुसमृद्धस्तस्य वाचां विशेषः ॥ १३ ॥ इति श्री भारतीस्तवनं सम्पूर्णम् ॥ प्रशस्तिः यदक्षरपरिभ्रष्टं स्वरव्यञ्जनवजितम् । तत्सर्वं क्षमतां देवि ! प्रसीद परमेश्वरि ।। * जानीमेघेन लिखितम् । सुमतिधीरगणिपठनार्थम् ॥ श्री ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4