Book Title: Ashadh Chaturmasik Vyakhyanam
Author(s): Vijaylakshmisuri
Publisher: Navalchand Khimchand Zaveri

View full book text
Previous | Next

Page 17
________________ ५। विलेपनं कुङ्कुमादिना ६ । एतत्पदत्रयेण समस्तपूजासङ्ग्रहो ज्ञेयः । ब्रह्मचर्य पाल्यं सुदर्शनश्रेष्ठ्यादिवत् । तथा । १-सुदर्शनश्रेष्ठिप्रबन्धोऽयम्-चम्पायामृषभदासः श्रेष्ठी। तस्याईदासी स्त्री सुशीलाऽभवत् । अन्येार्माघमासे सुभगाख्यस्तन्महिपीपालः श्रेष्ठिमहिषीश्वारयित्वा गृहमागच्छन् सायमपावृतं प्रतिमास्थं शीतात मुनि पथि दृष्ट्वा तस्य श्लाघां विधाय गृहमागत्य निशामतिवाह्य सवेलमुत्थाय महिषीः पुरस्कृत्य गच्छन् तथास्थं मुनि वीक्ष्य तत्पार्श्वे निषण्णः । इत उदिते रखौ स चारणमुनिः 'नमो अरिहंताणं' इत्युक्त्वा दिवमुत्पतितः । ततस्तेन तत्पदं व्योमगामिविद्यामश्रमिव मत्वा चित्ते न्यस्तं । तदेव सोऽर्हत्सन्निधौ अन्येद्युः पठति स्म । तद्ध्यानपरं || दृष्ट्वा श्रेष्ठी पप्रच्छ-'कुत इदं त्वया प्राप्तम् ? । तेनोक्तं-'मुनेः' इति, उक्ते सर्ववृत्तान्ते च तुष्टः श्रेष्ठी तं सम्पूर्ण नमस्कारमपाठयत् । दा इतस्तद्गुणनं कुर्वतस्तस्य क्रमावर्षाकालः समेतः । ततो मेघेनैकार्णवे महीमण्डले कृते स महिषीर्लात्वा वनं गतः । अन्तराले नदी पूरमागता । अथ तेन व्योमविद्याबुद्ध्या तदेव स्मरता नद्यां झंपा दत्ता । अन्तराले स कीलकविद्धो मृत्वा तस्यैव श्रेष्टिनः सुदर्शनाख्यः सुतो जातः । क्रमात्पितृभ्यां मनोरमामिभ्यसुतां विवाहितः । इतस्तस्य कपिलेन नृपपुरोधसा समं निविडा प्रीतिरभूत् । अन्यदा पत्युक्तत द्रुणश्रवणानुरक्ता तत्पनी कपिला कामातुरा सुदर्शनसौधे समेत्य 'तवाद्य सुहृदो वपुरपाटवमस्त्यतस्त्वया सुखपृच्छार्थ शीघ्रं मदहे समेतव्यं' Pइत्युक्त्वा तं गुप्तगृहान्त त्वा द्वारं दत्त्वा त्रपां त्यक्त्वा रतार्थ प्रार्थयामास । ततः परस्त्रीरचौ षण्ढः स श्रेष्ठी शीलरक्षार्थ 'षण्ढोऽहमस्मि मुग्धे! किं वृथा मां प्रार्थयसि ?' इत्युक्त्वा निर्गत्य गृहमागतः । अन्यदा नृपः सपुरोधःसुदर्शनः क्रीडितुमुद्यानं गतः । यानारूढाऽभया राज्यपि कपिलया समं वनमगात् । इतः कपिला सुदर्शनप्रियां सुतषटूयुतां पथि दृष्ट्वा 'केयं स्त्री?' इत्यभयामपृच्छत् । तयोक्तं- 'इयं श्रेष्ठित्री, एते तत्सुताः। ततः कपिलया तद्वृत्तान्तो मूलतः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 15 16 17 18 19 20