Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ शतकं -१, वर्ग:-, उद्देशकः-१ अतस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृत शैलीवशात् । अविद्यमानं वा रहः- एकान्तरूपो देशः अन्तश्चमध्यं गिरिगुहादीनां सर्ववेदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्वस्याभावेन येषां ते अरहोऽन्तरः अतस्तेभ्योऽरहोऽन्तर्भयः । अथवा अविद्यमानो रथः स्यन्दनः सकलपरिग्रहोपलक्षणभूतोऽन्तश्च विनाशो जराद्युपलक्षणभूतो येषां ते अरथान्ता अतस्तेभ्यः । अथवा ‘अरहंताणं’ति क्वचिदप्यासक्तिमगच्छद्भयः क्षीणरागत्वात् । अथवा अरहयद्भयः प्रकृष्टरागादिहेतुभूतमनोज्ञेतरविषयसंपर्केऽपि वीतरागत्वादिकं स्वं स्वभावमत्यजद्भय इत्यर्थः । - 'अरिहंताणंति पाठान्तरं तत्र कर्मारिहन्तृभ्यः, आह च - "अट्ठविहंपिय कम्मं अरिभूयं होइ सयलजीवाणं । तं कम्ममरिं हंता अरिहंता तेण वुच्चति ॥ 'अरुहंताण' मित्यपि पाठान्तरं तत्र 'अरोहद्भयः' अनुपजायमानेभ्यः, क्षीणकर्म्मवीजत्वात्, आह च 119 11 119 11 "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कुरः । कर्म्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ नमस्करणीयता चैषां भीमभवगहनभ्रमणभीतभूतानामनुपमानन्दरूपपरमपदपुरपथप्रदर्शकत्वेन परमोपकारित्वादिति । ‘नमो सिद्धाणं’ ति, सितंबद्धमष्टप्रकारं कर्मेन्धनं ध्मातं-दग्धं जाज्वल्यमान शुक्लध्यानानलेन यैस्ते निरुक्तविधिना सिद्धाः । अथवा 'षिधु गतौ' इति वचनात् सेधन्ति स्म-अपुनरावृत्त्या निर्वृतिपुरीमगच्छन् । अथवा 'षिधु संराद्धी' इतिवचनात् सिद्धयन्ति स्म निष्ठितार्था भवन्ति स्म, अथवा 'षिधूञ् शास्त्रे माङ्गल्ये च' इतवचनात् सेधन्ति स्म-शासितारोऽभूवन् मङ्गल्यरूपतां चानुभवन्ति स्मेति सिद्धाः ।। अथवा सिद्धाः-नित्याः, अपर्यवसानस्थितिकत्वात्, प्रख्याता वा भव्यैरुपलब्धगुणसदोहत्वात्, आह 119 11 - “ध्यातं सितं येन पुराणकर्म्म, यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थो, यः सोऽस्तु सिद्धः कृतमङ्गलो मे ॥ अतस्तेभ्यो नमः, नमस्करणीयता चैषामविप्रणाशिज्ञादर्शनसुखवीर्यादिगुणयुक्ततया स्वविषयप्रमोदप्रकर्षोत्पादनेन भव्यानामतीवोपकारहेतुत्वादिति । 'नमो आयरियाणं’ति, आ-मर्यादया तद्विषयविनयनरूपया चर्यन्ते-सेव्यन्ते जिनशासनार्थोपदेशकतया तदाकाङ्क्षिभिरित्याचार्या, उक्तञ्च - 119 11 “सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुक्को अत्यं वाएइ आयरिओ ।। अथवा आचारो-ज्ञानाचारादि पञ्चधा आ-मर्यादया वा चारो - विहार आचारस्तत्र स्वयंकरणात् प्रभाषणात् प्रदर्शनाच्चेत्याचार्या, आह च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 564