Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 18
________________ श्रुतस्कन्धः - १, अध्ययनं - उद्देशकः १५ पतीनामन्त्यपङ्कतौ षटकानां न्यस्यते, तदधः पञ्चकानां विंशत्युत्तरमेव शतम्, एवमधोऽधश्चतुष्कत्रिकद्विकैककानां प्रत्येकं विंशत्युत्तरशतं न्यस्यम्, एवमन्त्यपङ्कतौ सप्त शतानि विंशत्युत्तराणि भवन्ति। एषा च गणितप्रक्रियाया आदिरुच्यते, तथा यत्तद्विशत्युत्तरं शतं लब्धं, तस्य च पुनः शेषेण पञ्चकेन भागेऽपहृते लब्धाचतुर्विशति, तावन्तस्तावन्तश्च पञ्चकचतुष्कत्रिकद्विकैककाः प्रत्येकं पञ्चमपङ्कतौ न्यस्याः यावद्विंशत्युत्तरं शतमिति, तदधोऽग्रतो न्यस्तमकं मुक्त्वा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताश्चतुर्विशतिसंख्य एव तावत् न्यस्यो यावत्सप्त शतानि विंशत्युत्तराणिपञ्चमपङ्कावपिपूर्णानिभवन्ति, एषाचगणितप्रक्रिययैवान्त्योऽभिधीयते, एवमनया प्रक्रियया चतुर्विशतेः शेषचतुष्ककेन भागे हतेषट्लभ्यन्ते, तावन्तश्चतुर्थपोचतुष्ककाः स्थाप्याः, तदधःषट् त्रिकाः, पुनर्द्विका भूय एककाः, पुनः पूर्वन्यायेन पङ्कितः पूरणीया, पुनः षट्कस्य शेषत्रिकेण भागे हते द्वौ लभ्येते, तावन्मात्रौ त्रिको तृतीयपङ्कतै , शेषं पूर्ववत्, शेषपङ्कितद्वये शेषमङ्कद्वयं क्रमोक्रमाभ्यां व्यवस्थाप्यमिति । तथा नाम्निषड्विधनाभ्रयवतरति, यतस्तत्र षड्भावाःप्ररूप्यन्ते, श्रुतस्य च क्षायोपशमिकभाववर्तित्वात् । प्रमाणमधुना-प्रमीयतेऽनेनेति प्रमाणं, तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्द्धा, तत्रास्याध्ययनस्य क्षायोपशभिकभावव्यवस्थितत्वाद्भावप्रमाणेऽवतारः, भावप्रमाणंचगुणनयसंख्याभेदानिधा, तत्रापि गुणप्रमाणे समवतारः, तदपिजीवाजीवभेदाद् द्विधा । समयाध्ययनस्य च क्षायोपशमिकभावरूपत्वात् तस्य च जीवानन्यत्वाज्जीवगुणप्रमाणे समवतारः,जीवगुणप्रमाणमपि ज्ञानदर्शनचारित्रभेदात्त्रिविधं, तत्रास्यबोधरूपत्वात् ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्दा, तत्रास्यागमप्रमाणे समवतारः । सोऽपि लौकिकलोकोत्तरभेदाद द्विधा, तदस्य लोकोत्तरे समवतारः, तस्य च सूत्रार्थतदुभयरूपत्वात्रैविध्यं, (अस्य त्रिपरूत्वात्) त्रिष्वपिसमवतारः, यदिवा-आत्मानन्तरपरम्परभेदादागमस्त्रिविधः, तत्र तीर्थकृतामर्थापेक्षयाऽऽत्मागमो गणधराणामनन्तरागमस्तच्छिष्याणां परम्परागमः, सूत्रापेक्षया तु गणधराणामात्मागमस्तच्छिष्याणामनन्तरागमस्तदन्येषां परम्परागमः,गुणप्रमाणानन्तरं नयप्रमाणावसरः, तस्यचेदानीं पृथक्त्वानुयोगेनास्तिसमवतारो, भवेद्वा पुरुषापेक्षया, तथा चोक्तम् “मूढनइयं सुयं कालियं तु न नया समोरयंति इहं । ___अपुहुत्ते समायारोनस्थि पुहत्ते समोयारो ॥१॥तथा “आसज्जउसोयारं नए नयविसारउ वूया," संख्याप्रमाणं त्वष्टधा-नामस्थापनाद्रव्यक्षेत्रकालपरिमाणपर्यवभावभेदात्, तत्रापिपरिमाणसंख्यायां समवतारः, सापि कालिकद्दष्टिवादभेदात् द्विधा, तत्रास्य कालिकपरमाणुसंख्यायां समवतारः, तत्राप्यङ्गानङ्गयोरङ्गप्रविष्टे समवतारः, पर्यवसंख्यायांत्वनन्ताः पर्यवाः, तथा संख्येयान्यक्षराणि संख्येयाः संघाताः संख्येयानि पदानि संख्येयाः पादाः संख्येयाः श्लोकाः संख्येया गाथाः संख्येया वेढाः संख्येयान्यनुयोगद्वाराणि।। साम्प्रतंवक्तव्यतायाः समवतारश्चिन्त्यते-साचस्वपरसमयतदुभयभेदात्रिधा, तत्रेदमध्ययनं त्रिविधायामपि समवतरति । अर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारंतु गाथान्तरितं नियुक्तिकृद्वक्ष्यति। साम्प्रतं निक्षेपावसरः, स च त्रिधा-ओधनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 484