Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 11
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् 9/-/9 तथा सम्यक्प्रणयनक्रयाप्रवर्त्तनेन प्ररूपितं, किमुक्तं भवति ? - यद्यपि नाम श्रोता न भगवद्विवक्षां साक्षादधिगच्छत तथाऽप्यनादिरयं शाब्दो व्यवहारः साक्षाद्विवक्षाग्रहणमन्तरेणापि भवति यथासङ्केतं शब्दार्थावगमो बालादीनां तथा दर्शनात्, अन्यथा सकलशाब्दव्यवहारोच्छेदप्रसक्तेः, चित्रार्था अपि शब्दा भगवतैव सङ्केतिताः प्रस्तावौचित्यादिना च नियतमर्थं प्रतिपादयन्ति, ततश्चित्रार्थशब्दश्रवणेऽपि भवति यथाऽवस्थितार्थावगमो, न चान्यथाऽवबुध्यमानांस्तान्न निषेधति, अविप्रतारत्वात्, न चोपेक्षते, तीर्थप्रवर्त्तनाय प्रवृत्तत्वात् । ततो गणभृतां साक्षात् परम्परया शेषसूरीणामपि यथाऽवस्थितार्थावगम इति नेदमविज्ञातार्थमिति, अन्ये त्वाहुः - भगवान्न प्रवचनप्रयासमाघत्ते, केवलं तत्पुण्यप्राग्भारवशादेव श्रोतॄणां प्रतिमास उपजायते यथा-इत्थमित्थं भगवान् तत्वमाचष्टे, उक्तं च"तदाधिपत्यादाभासः, सत्वानामुपजायते । 119 11 ८ स्वयं तु यत्नरहितश्चिन्तामणिरिव स्थितः ।।” इति । तन्मतविकुट्टनार्थमाह-'जिनाख्यातं ' जिनेन - भगवता वर्द्धमानस्वामिना प्रकृष्टपुण्यसंभारविपाकोदयतस्तथा व्यापारयोगेन आख्यातं कथितं जिनाख्यातं, साक्षात्कथनव्यापारोपलम्भेऽपि यदि तदाधिपत्यमात्रात्तथाप्रतिभासः श्रोतॄणामित्यभ्युपगम्यते ततोऽन्यत्रापि तथाकल्पनाप्रसङ्गः, तथा च प्रत्यक्षविरोध इति यत्किञ्चिदेतद् भगवांश्चाख्यातवान् सम्यग् योग्येभ्यः श्रोतृभ्यो नायोग्येभ्यः, अमूढलक्षत्वात् सम्यगयोग्यश्च श्रोता श्रोतृलक्षणोपेतः, श्रोतृलक्षणानि चामूनि"मध्यस्थो बुद्धिमानर्थी, जात्यादिगुणसंगतः । || 9 || श्रुतकृच्च यथाशक्ति, श्रोता पात्रमिति स्मृतः ।।" ततः फलवदेवेदं जिनाख्यातमित्यावेदयन्नाह - 'जिनानुचीर्णं' जिना इह हिताप्त्यनिवर्त्तकयोगसिद्धा गणधारिणः परिगृह्यन्ते, विचित्रार्थत्वात्तणां ततोऽयमर्थ - जिनैः हितास्थनिवर्त - कयोगसिद्धैर्गणधारिभिरनुचीर्णं सम्यक् तदर्थावगमासङ्गक्तिगर्भानिवर्त्तकसमभावप्राप्तया धर्ममेघनाकसमाधिरूपेण परिणमितं जिनानुचीर्णम्, अत एव तथारूपसमाधिभावतः समुल्लसिकातिशयविशेषभावेन तेषां तथा सूत्रकरण शक्तिरिति दर्शयन्नाह - 'जिनप्रज्ञप्तं ' जिनैः - हितास्यनिवर्कयोगिभि प्रज्ञप्तं - तदन्यसत्वानुग्रहाय सूत्रत आचाराद्यङ्गोपाङ्गादिभेदेन रचितं जिनप्रज्ञप्तम्, उक्तंचअत्यं भासइ अरिहा सुत्तं गंधति गणहरा निउणं । 119 11 सासणस हियट्ठाए तओ सुत्तं पवत्तई ॥ इति । इदं च हितप्रवृत्तादिरूपेभ्यो जिनेभ्यो देशनीयं तेषामेव सम्यग्विनेययोगभावतो हिताविघातकरणात् इत्येतदुपदर्शयन्नाह - 'जिनदेशितं' जिना इह हितप्रवृत्तगोत्रविशुद्धोपायाभिमुखापायविमुखादयः परगृह्यन्ते, तथा मूलटीकाकृता व्याख्यानात्, जिनेभ्यो हितप्रवृत्तादिरूपेभ्यः सुश्रूषादिभिर्व्यक्तभावेभ्यो देशितं कथितं गणधरैरपि जिनदेशितं, तथा च जम्बूस्वमामिप्रभृतय एवंविधा एवेति निरूपणीयमेतत्, अथ प्रकृतिसुन्दरमिदमिति कस्मादजिनेभ्योऽपि नोपदिश्यते ?, उच्यते, तेषां स्वतोऽ सुन्दरत्वेनानार्थोपनिपातसम्भवात्, ध्ष्टं च पात्रासुन्दरतय स्वतः सुन्दरमपि रविकराद्युलूकादीनामनदिश्यते ?, उच्यते, तेषां स्वतोऽसुन्दरत्वेनानर्थोपनिपातसम्भवात् दृष्टं च पात्रासुन्दरतया स्वतः सुन्दरमपि रविकराद्युलूकादीनामनर्थाय आह च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 532