Book Title: Agam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 18
________________ प्रतिपत्तिः-१, १५ २ वणस्सइकाइया ३॥ वृ.अथ केतेस्थावराः?, सूरिराह-स्थावरासस्त्रिविधाःप्रज्ञप्ताः, तद्यथा-पृथिवीकाया एवपृथिवीकायिकाः, आर्षत्वात्स्वार्थेइकप्रत्ययः,आपो-द्रवास्ताश्चप्रतीताःता एव कायः-शरीरं येषां ते अप्कायाः अप्कायाएवाप्कायिकाः, वनस्पति-लतादिरूपः प्रतीतः स एव कायः-शरीरं येषांतेवनस्पतिकायाःवनस्पतिकायाएव वनस्पतिकायिकाः, सर्वत्र बहुवचनंबहुत्वख्यापनार्थ, तेन पृथिवी देवते त्यादिना यत्तदेकजीवत्वमात्रप्रतिपादनं तदपास्तमवसेयं, यदि पुनस्तदधिष्ठात्री काचनापि देवता परिकल्प्यते तदानीमेकत्वेऽप्यविरोधः। इह सर्वभूताधारः पृथिवीती प्रथमं पृथिवीकायिकानामुपादानं, तदनन्तरं तप्रतिष्ठितत्वादकायिकाना, तदनन्तरं जत्थ जलंतत्थ वणं' इतिसैद्धान्तिकवस्तुप्रतिपादनार्थंवनस्पतिकायिकानामिति, इह त्रिविधत्वं स्थावराणां तेजोवायूनां लब्ध्या स्थावराणामपि सतां गतित्रसेष्वन्तविविवक्षणात, तथा च तत्वार्थसूत्रमप्येवं "पृथिव्यम्बुवनस्पतयः स्थावराः ।। तेजोवायू द्वीन्द्रियादयश्च त्रसाः" इति, तत्र 'यथोद्देशं निर्देश इतिप्रथमतः पृथिवीकायिकप्रतिपादनार्थमाह मू. (११) से किं तं पुढविकाइया?, २ दुविहा पं०, तं०-सुहमपुढविक्काइयाय बायरपुढविकाइयाय॥ वृ. अथ के ते पृथिवीयिकाः?, सूरिराह-पृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथासूक्ष्मपृथिवीकायिकाश्च बादरपृथिवीकायिकाश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्माबादरनामकर्मोदयात्त बादराः, कर्मोदयजनिते खल्वेते सूक्ष्मबादरत्वे, नापेक्षिके बदरामलकयोरिव, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, बादराश्च ते पृथिवीकायिकाश्च बादरपृथिवीकायिकाः, चशब्दौ स्वगतानेकभेदसूचको, सूक्ष्माः सकललोकवर्त्तिनो बादराः प्रतिनियतैकदेशधारिणः । तत्र सूक्ष्मपृथिवीकायिकप्रतिपादनार्थमाहमू.(१२) से किंतंसुहमपुढविक्कइया?, २ दुविहापं०, तं०-पज्जत्तगाय अपजत्तगाय।। वृ.अथ केते सूक्ष्मपृथिवीकायिकाः?, सूरिराह-सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तकाश्चापर्याप्तकाच, तत्र पर्याप्तिामाहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, सच पुद्गलोपचयादुपजायते, किमुक्तं भवति?-उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जाताना यः शक्तिविशेष आहारादिपुद्गलखलरसरूपतापादनहेतुर्यथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः सापर्याप्तिसाचषोढा, तद्यथाआहारपर्याप्तिः१ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः ३ प्राणापान०भाषापर्याप्ति० ५ मनःपर्याप्तिश्च ६ तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः १, यया रसीभूतमाहारं रसासृग्मांसभेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतयापरिणमयति साशरीरपर्याप्तिः २, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति साइन्द्रियपर्याप्ति ३, यया पुनरुच्छ्वासप्रायोग्यवर्गणापुद्गलानादायोच्छासरूपतया परिणमय्यालम्ब्यच मुञ्चति सा उच्छ्वासपर्याप्तिः४, ययातु भाषाप्रायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यालम्व्य च मुञ्चति सा भाषापर्याप्तिः ५, यया पुनर्मनःप्रायोग्वर्गमादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 532