Book Title: Adhyatmik Poojan Vidhan Sangraha
Author(s): Ravindra
Publisher: Kanjiswami Smarak Trust Devlali

Previous | Next

Page 239
________________ आध्यात्मिक पूजन- विधान संग्रह कृत्रिमाकृत्रिम जिनचैत्य अर्ध्य कृत्याकृत्रिम चारु चैत्यनिलयान्, नित्यं त्रिलोकी गतान् । वन्दे भावनव्यन्तरान् द्युतिवरान् स्वर्गामरावासगान् ॥ सद्गन्धाक्षतपुष्प-दाम-चरुकैः, सद्दीप-धूपैः फलैः । द्रव्यैर्नीरमुखैर्यजामि सततं दुष्कर्मणां शान्तये ॥ ॐ ह्रीं कृत्रिमाकृत्रिमचैत्यालयसम्बन्धिजिनबिम्बेभ्यो नमो नमः अर्घ्यं नि. स्वाहा । कृत्रिमाकृत्रिम जिनचैत्य अर्घ्य वर्षेषु वर्षांतर - पर्वतेषु नन्दीश्वरे यानि च मंदरेषु । यावन्ति चैत्यायतनानि लोके सर्वाणि वंदे जिनपुंगवानाम् ॥ अवनि-तल-गतानां कृत्रिमाकृत्रिमाणां, वन-भवन-गतानां दिव्य- वैमानिकानाम् । इह मनुज- कृतानां देवराजार्चितानां, जिनदर्-निलयानां भावतोऽहं स्मरामि ॥ जम्बू धातकि पुष्करार्ध वसुधा क्षेत्रत्रये ये भवाश्चन्द्राम्भोजशिखण्डिकण्ठ - कनक प्रावृडूघनाभा जिना: । सम्यग्ज्ञान-चरित्र-लक्षण-धरा दग्धाष्ट- कर्मेन्धनाः, भूतानागत- वर्तमान-समये तेभ्यो जिनेभ्यो नमः ॥ श्रीमन्मेरौ कुलाद्रौ रजतगिरिवरे शाल्मलौ जम्बुवृक्षे, वक्षारे चैत्यवृक्षे रतिकर - रुचिके कुंडले मानुषाङ्के । इष्वाकारेऽञ्जनाद्रौ दधि - मुख - शिखरे व्यन्तरे स्वर्गलोके, ज्योतिर्लोकेऽभिवंदे भुवन-महितले यानि चैत्यालयानि ॥ द्वौ कुन्देन्दु तुषार-हार - धवलौ द्वाविंद्रनील प्रभौ, द्वौ बंधूक - सम-प्रभौ जिनवृषौ द्वौ च प्रियंगुप्रभौ । शेषाः षोडश जन्म-मृत्यु-रहिताः संतप्त-हेम-प्रभाः ते संज्ञान-दिवाकराः सुरनुताः सिद्धिं प्रयच्छन्तु नः ॥ ॐ ह्रीं त्रिलोकसंबंधि-कृत्रिमाकृत्रिमचैत्यालयेभ्योऽर्घ्यं नि. स्वाहा । Jain Education International For Private & Personal Use Only 238 www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242