Book Title: Abhidhan Rajendra Kosh Part 07
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 37
________________ संकम 13 - अभिधानराजेन्द्रः - भाग 7 संकम पवेदः क्षीणः। तत्समये च सेज्वलनक्रोधस्यापि पतद्ग्रहता न भवतीति तस्मिन्नपगते शेषासु तिसृषु प्रकृतिषु तिरत्रः प्रकृतयः संक्रामन्ति, तावान्तर्मुहूर्त कालं यावत् / ततः समयोनावलिकाद्विकेन कालेन संज्वलनक्रोधः क्षीयते / तत्समये च संज्वलनमानस्याऽपि पतदग्रहता न भवतीति शेषयोर्द्वयोः प्रकृत्योर्द्ध प्रकृती संक्रामतः, ते चान्तमुहूर्त कालं यावत्। ततः समयोनाबलिकाद्विकन कालेन संज्वलनमानोऽपि क्षीयते। तत्समयमेव च संज्वलनमायाया अपि पतद्ग्रहता न भवति / तत एकस्यामेव संज्वलनलोभलक्षणाया प्रकृतौ संज्वनलमायालक्षणा एका प्रकृतिः संक्रामति, सा चान्तर्मुहूर्त कालं यावत्। तत आवलिकाद्विकेन कालेन संज्वलनमायाऽपि क्षीयते। ततऊर्ध्वं न किमपि क्वापि संक्रामति / सम्प्रति यथोक्तरूपेषु पतद्ग्रहेषु प्रत्येक संक्रमस्थानानि संकलयन्नाहछव्वीससत्तवीसा-ण संकमो होउ चउसु ठाणेसु। बावीसपन्नरसगे, एकारस इगुणवीसाए।।१२।। 'छध्वीस' त्ति चतुर्पु स्थानेषु पतद्ग्रहरूपेषु। तद्यथा-द्वार्विशतो, पञ्चदशके , एकादशके, एकोनविंशतौ च षड्विंशतिसप्तविंशत्योः संक्रमो भवति। तत्र द्वाविंशतौ मिथ्यादृष्टः, पञ्चदशके देशविरतस्य, एकादशके प्रमत्ताप्रमत्तयाः, एकोनविंशती अविरतसम्यग्-दृष्टः / सत्तरसएकवीसा-सु संकमो होइ पन्नवीसए। नियमा चउसु गईसुं, नियमा दिट्ठी कए तिविहे / / 13 / / 'सत्तरस' त्ति-सप्तदशकैकविंशत्योः पञ्चविंशतेः संक्रमो भवति। तत्र सप्तदशके मिश्रदृष्टेः, एकविंशतो मिथ्यादृष्टेः सासादनस्य च / अयं च पञ्चविंशतेः सप्तदशकै कविंशत्योः संक्रमो नियमाचतसृष्वपि गतिषु प्राप्यते / नियमाच सप्तदशके सासादनकविंशतौ च पञ्चविंशतः संक्रमः त्रिविधायां-त्रिप्रकारायां दृष्टौ दर्शनमोहनीये कृतायां वेदितव्यः / मिथ्यादृष्टस्त्वेकविंशतौ पञ्चविंशतिसंक्रमोऽनादिमिथ्यादृष्टरपि भवति। 'कए' इति 'तिविहे' इति च पुंस्त्वनिर्देशः प्राकृतत्वात्। बावीसपन्नरसगे, सत्तगएकारसिगुणवीसासु। तेवीसाए नियमा,पंच वि पंचिंदिएसु भवे / / 14 / / 'बावीस' त्ति त्रयोविंशतः संक्रमो द्वाविंशतिपञ्चदशकसप्तकैकादशकै कोनविंशतिरूपेषु पञ्चसु पतद्ग्रहेषु भवति / तत्र द्वाविंशती मिथ्यादृष्टः, पञ्चदशके देशविरतस्य, सप्तके औपशमिकसम्यगदृष्टरूपशमश्रेण्यां वर्तमानस्य, एकदशके प्रमत्ताप्रमत्तयोः, एकोनविंशती अधिरतसम्यग्दृष्टेः / एतानि च पञ्च पतद्ग्रहस्थानानि पञ्चेन्द्रियेष्वेव भवन्ति / / चोदसगदसगसत्तग, अट्ठारसगे य होइ बावीसा। नियमा मणुयगईए, नियमा दिट्ठीकए दुविहे / / 15 / / 'चोद्दस त्ति द्वाविंशतिः संक्रमोग्या भवति, चतुर्दशके दशके सप्तकेऽ- | ष्टादशके च। तत्र चतुर्दशके देशविरतस्य,दशके प्रमत्ताप्रमत्तयोः, सप्तके औपशमिकसम्यगदृष्टरुपशमश्रेण्यां वर्तमानस्य, अष्टादशकेऽविरत - सम्यग्दृष्टः एषा च द्वाविंशतिर्नियमान्मनुजगतौ भवति, नान्यत्र / नियमाच्च दृष्टौ द्विविधायां कृतायां सम्यक्त्वसम्यग्मिथ्यात्वयोरेव सतोरित्यर्थः। तेरसगनवगसत्तग, सत्तारसपणगएकवीसासु। एक्कवीसा संकमइ, सुद्धसासादणमीसेसु / / 16 / / 'तेरस' त्ति त्रयोदशकनवकसप्तकसप्तदशकपञ्चकेकविंशतिरूपेषु षट्सु पतदग्रहेष्वेकविंशतिः संक्रामति। केषु जीवेष्वित्यागशुद्धसासादनमिश्रेषु शुद्धेषु विशुद्धदृष्टिषु अविरतसम्यग्दृष्ट्यादिषु सासादनमिश्रेषु / तत्र त्रयोदर्शक देशविरतस्य, नवके प्रमत्ताप्रमत्तयोः, सप्तके औपशमिकसम्यगदृष्ट रूपशभश्रेण्या वर्तमानस्य, सप्तदशकेऽविरतसम्यग्दृष्टमिश्रदृष्टश्च, पञ्चके क्षायिकसम्यग्दृष्टरूपशमश्रेण्या वर्तमानस्य क्षपकश्रेण्यांग एकविंशतो सासादनस्य इहयैराचार्यश्चतुर्विशतिसत्कर्मा सन्नुपशमश्रेणीतः प्रतिपतन मिथ्यात्वाभिमुखः सासादन इष्यते, तन्मते सासादनस्यैकविशतावेकविंशतिः संक्रमेऽभिहिता अन्यथा पुनरनन्तानुबन्ध्युदयसहितस्य सासादनस्यैकविंशतौ पञ्चविंशतिरेव संक्रमे प्राप्यते। सा च प्रागेवोक्ता। एत्तो अविसेसा सं-कमंति उवसामगे व खवगे वा। उवसामगेसु वीसा,य सत्तगे छक्कपणगे य॥१७॥ 'एत्तो' त्ति इत ऊर्द्धमविशेषाः सप्तदश संक्रमाः संक्रामन्ति, उपशमके क्षपके वा। तत्र विंशतिः संक्रमयोग्या सप्तके षट्के पञ्चके चौपशमिकेषु प्राप्यते / तत्रापि सप्तके षट्के चौपशमिकसम्यग्दृष्टे रूपशमश्रेण्या वर्तमानस्य पञ्चके क्षायिकसम्यगदृष्टरूपशमश्रेण्याम्। पंचसु पगुणवीसा, अट्ठारस पंचगे चउक्के य। चउदस छसु पगईसुं,तेरसगं छक्कपणगम्मि / / 18|| 'पंचसु' त्ति-पशके एकोनविंशतिः संक्रामति / सा च क्षायिकसम्यग्दृष्टरुपशमश्रेण्या वर्तमानस्य। तथा तस्यैवाष्टादश संक्रामन्ति पञ्चके चतुष्के च, तथा चतुर्दश षट्सु प्रकृतिषु / ताश्चौपशमिकसम्यग्दृष्टे - रूपशम श्रेण्या वर्तमानस्य तथा त्रयोदशकं षट्के पश्चके च। तत्र षटके औपशमिकसम्यगदष्टरूपशमश्रेण्यां वर्तमानस्य, पञ्चके क्षपक श्रेण्याम्। पंच चउक्के बारस,एक्कारस पंचगे तिगचउक्के / दसगं चउक्कपणगे, नवगं च तिगम्मि बोधव्वं / / 16 / / 'पंच'ति-पञ्चके चतुष्के च द्वादश संक्रामन्ति। ताश्च पञ्चके क्षपक श्रेण्या, चतुष्के क्षायिकसम्यग्दृष्ट रूपशमश्रेण्यां वर्तमानस्या तथैकादश पञ्चके त्रिके चतुष्के च संक्रामन्ति / तत्र पञ्चके औपशमिकसम्यगदृष्टे - रूपशमश्रेण्या (वर्तमानस्य, क्षपक श्रेण्या) त्रिके चतुष्के व क्षायिकसम्यग्दृष्टरूपशमश्रेण्यां च, तथा दशकं चतुष्के पञ्चके च संक्रामति / तचौपशमिकसम्यग्दृष्टरूपशमश्रेण्या वर्तमानस्य क्षपक श्रेण्यां च / तथा नवकं त्रिके बोद्धव्यम्। तच क्षायिकसम्यग्दृष्टरूपशमश्रेण्या वर्तमानस्य /

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 ... 1276