Book Title: Aagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 9
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं -1, नियुक्ति: [-] (४३) प्रत सूत्रांक [-] Pमालम् 'इइ पाउकरे बुद्धे' इत्यादिना बुद्धाद्यभिधानं । समुदायो-वर्णपदवाक्यश्लोकाध्ययनकदम्बकात्मकश्रुतस्क न्धरूपस्तस्याभिधेयोऽर्थः समुदायार्थः, स चेह धर्मकथात्मकः, विशेषतस्त्वेनं 'पढमे विणओं' इत्यादिना नियुक्ति कार एवं वक्ष्यति । द्वाराणीति प्रक्रमादनुयोगद्वाराणि, तत्र चानुगतमनुरूपं वा श्रुतस्य खेनाभिधेयेन योजन-सम्बFधनं तस्मिन् वाऽनुरूपोऽनुकूलो वा योगः श्रुतस्यैवाभिधानन्यापारोऽनुयोगः, तदुक्तम्-“अणुजोयणमणुजोगो सुयस्स नियएण जमभिधेयेणं । वावारो वा जोगो जो अणुरूवोऽणुकूलो वा ॥१॥" तस्य द्वाराणि-उपक्रमादीनि अनुयोगद्वाराणि तानि तद्भेदनिरुक्तिक्रमप्रयोजनानि च 'तत्थज्झयणं पढम' मित्यत्र वक्ष्यामः । आह-प्रकृतोऽयमुत्तराध्ययनानुयोगः, तत्र किमेतान्युत्तराध्ययनान्यङ्गमङ्गानि श्रुतस्कन्धः श्रुतकन्धा अध्ययनमध्ययनानि उद्देशक उद्देशकाः १, उच्यते, नाझं नाङ्गानि, श्रुतस्कन्धो न श्रुतस्कन्धाः, नाध्ययनमध्ययनानि, नोद्देशको नोद्देशका इति । अस्य च नामनिक्षेपे 'उत्तराध्ययनश्रुतस्कन्ध' इति नाम, तत्रोत्तरं निक्षेप्तव्यमध्ययनं श्रुतस्कन्धश्च, तत्रोत्तरनिक्षेपाभिधानायाह भगवान् नियुक्तिकारः CAREERSTAN दीप अनुक्रम [-] १ अनुयोजनमनुयोगः सूत्रस्य निजकेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥१॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~8~Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 1428