Book Title: Aagam 41 1 OGH NIRYUKTI Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 7
________________ आगम (४१/१) “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः ) मूलं [४] → “नियुक्ति: [१-२] + भाष्यं -1 + प्रक्षेपं [१-३]" . मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४१/१], मूल सूत्र-२/१] “ओघनियुक्ति” मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१|| कृतेत्यर्थः, एवं पदविभागसामाचारी दशधासामाचार्यपीति । तत्रौघसामाचारी तावदभिधीयते, अस्याश्च महार्थत्वात् कथ-2 चिच्छास्त्रान्तरत्वाच्चादावेवाचार्यों मङ्गलार्थ संबन्धादित्रयप्रतिपादनार्थं च गाथाद्वयमाह अरहते वंदित्ता च उदसपुषी तहेव दसपुची । एकारसंगमुत्तत्वधारए सबसाहू य॥१॥ ओहेण उ निजुर्ति बुच्छंचरणकरणाणुओगाओ। अप्पक्खरं महत्थं अणुग्गहत्थं सुविहियाणाशाजुयली। el अत्राह-किमर्थं शास्त्रारम्भे मङ्गलं क्रियते । इति, उच्यते, विघ्नविनायकोपशमनार्थ, तथा चोक्तम्-"श्रेयांसि बहुवि-12 मानि, भवन्ति" इत्यादि, श्रेयोभूता चेयमतो मङ्गलं कर्तव्यं, तच्च नामादिभेदेन चतुर्धा, तत्र नामस्थापने सुज्ञाने, द्रव्यमङ्गलं दध्यादि, तच्चानेकान्तिकमनात्यन्तिकं च, भावमङ्गलमहंदादिनमस्कारः, तच्चैकान्तिकमात्यन्तिकं च । तदनेन संव-| न्धेनायातस्यास्य व्याख्या क्रियते-सा च लक्षणान्विता नालक्षणेति, लक्षणं च संहितादि, “संहिता च पदं चैव” इत्यादि, तत्रास्खलितपदोच्चारणं संहिता, सा चेयम्-'अरहते वंदित्ता' इत्यादिका । अधुना पदानि प्रतन्यन्ते-अर्हतो वन्दित्वा चतुर्दशपूर्विणः तथैव दशपूर्विणः । एकादशाङ्गसूत्रार्थधारकान् सर्वसाधूंश्च । एतावन्ति पदान्याद्यगाथासूत्रे, द्वितीयगाथा-1 सूत्रपदान्युच्यन्ते-ओपेन तु नियुक्तिं वक्ष्ये चरणकरणानुयोगात् अल्पाक्षरां महााम् अनुग्रहार्थं सुविहितानाम् , एतावन्ति पदानि । अधुना पदार्थः–'अरहते' इत्यादि, अशोकाद्यष्टमहाप्रातिहादिरूपां पूजामहन्तीत्यर्हन्तः तान् अर्हतः, 'वंदित्तात इति 'वदि अभिवादनस्तुत्योः' स्तुत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययो भवतीति वन्दित्वा, किम् ?-'ओघनियुक्तिं वक्ष्ये' इति द्वितीयगाथाक्रियया सह योगः, किमर्हत एव वन्दित्वा ?, नेत्याह-'चतुर्दशपूर्विणश्च चतुर्दश दीप अनुक्रम ४) Santarai A nitaram.org ~6~

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 459